________________
४९५
श्रीदशवैकालिकसूत्रम् रथिकः स्माह सम्भ्रान्तः, कृतकृत्यः कृती च सः । साधितोभयलोकस्य, तस्याहमस्मि किङ्करः ।।२९१।। संविज्ञं साथ तं ज्ञात्वा, विदधे धर्मदेशनाम् । कलहंसीव सा तस्य, रंरमीति स्म मानसे ।।२९२।। सरस्यब्दाम्बुपूर्णा स्याद्, यथा सर्वोपकारिणी । बोधयित्री तथा त्वं मे, तद्वोधेनासि रथ्यवक् ।।२९३।। सा प्रबुद्धाय तस्मै स्वं, न्यवेदयदभिग्रहम् । सोऽप्यूचे धर्मशीले ! त्वं, पालयेः स्वमभिग्रहम् ।।२९४ ।। त्वया श्रीस्थूलभद्रस्य, कीर्तनेनास्मि बोधितः । ततस्तस्यैव पन्थान-मनुयास्याम्यहं शुभे ! ।।२९५।। इत्युक्त्वा सद्गुरोः पार्श्वे, गत्वा स व्रतमग्रहीत् । चक्रे श्रीस्थूलभद्रोऽपि, संयमं विगतोपमम् ।।२९६ ।।
अथान्यदाभवत् तत्र, दुःकालः कालसोदरः । लोकानां जीवितहरः, प्राणवृत्तेरभावतः ।।२९७ ।। सुकालरसितान् कांश्चि-ल्लघ्वाहारान् करोत्यसौ । कांश्चिल्लङ्घयते लोकान्, दुःकालो वैद्यराजवत् ।।२९८ ।। रङ्कराजाज्ञाया यस्मिन्, भिक्षाका भोक्तृवेश्मसु । कणभक्तानि याचन्ते, भट्टपुत्रा इव स्थिताः ।।२९९ ।। दुःकालेन हते राज्ञि, सुकालेऽभूदराजकम् । मात्स्यो न्यायस्तत: पृथ्व्या-मप्यभूद्वारिधाविव ।।३०० ।। अबला बालकादिभ्यो-ऽबलादाच्छिद्य गृह्यते । रङ्का अपि निराशङ्का, धान्यस्नेहफलादिकम् ।।३०१।। विसंस्थुलोऽभवद् गच्छ-स्तदानीमवनीतले । दिनान्यगमयत् साधुः, कोऽपि क्वापि कथञ्चन ।।३०२।। तदा च गुणनाभावात्, क्षुत्परीषहबाधया ।
सदृक्पाठतया वापि, साधूनां विस्मृतं श्रुतम् ।।३०३।। । कृपणा १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org