________________
४९४
श्रीतिलकाचार्यविरचितटीकायुतम् रथ्यूचे तव विज्ञानं, मद्विज्ञानाधिकं प्रिये ! । दुष्करणामुना तुष्टः, सर्वस्वं गृह्यतां मम ।।२७९।।
सावदत् किमिदं हन्त !, दुष्करं येन रञ्जितः । कुरुते कौशलं यस्मा-दभ्यासः सर्वकर्मसु ।।२८०।। न दुष्करं यद्दलिताम्रलुम्बी, न दुष्करं शिक्षितनर्तनं च । तद्दुष्करं यञ्च महानुभावो, मुनिः स गेहोपवने वसन् मे ।।२८१।। उपजातिः यत्र भोगान् मया सार्दू, द्वादशाब्दानि भुक्तवान् । तत्रैव चित्रशालायां, स तस्थावक्षतव्रतः ।।२८२।। . वालुंकीफलगन्धेन, स्तीमिता शमिता यथा । विनैकं स्थूलभद्रर्षि-मन्येषां दूष्यते मनः ।।२८३।। न स्रीणामन्तिके स्थातुं. क्षणमात्रमपि क्षमः । ' अखण्डितव्रतस्तस्थौ, चतुर्मासीमसौ यथा ।।२८४ ।। षड्विकृत्यशनं वास-श्चित्रगेहेऽन्तिकेऽङ्गना । अप्येकैकं व्रतं हन्ति, सर्वान्येतानि किं पुन: ? ।।२८५।। मन्येऽहं स्थूलभद्रोऽयं, निष्पन्नो नैष धातुभिः । चलन्ति धातवो येना-चलवन्निश्चलः स्वयम् ।।२८६।। गुणाः श्रीस्थूलभद्रस्या-प्रमेया वार्धिबिन्दुवत् । कोजिह्वोऽपि हि स्तोता, परं पारं न गच्छति ।।२८७।।
रथिकः पृच्छति स्माथ, स्थूलभद्रः सकः प्रिये ! । नैवोत्तरति यो जातु, हारवत् कण्ठतस्तव ।।२८८ ।। उवाच कोशा कुशलः, कलासु सकलास्वपि । भद्रङ्करः स्थूलभद्रः, सौधवंशाग्रमौक्तिकम् ।।२८९।। नन्दनः शकटालस्य, नन्दभूपालमन्त्रिणः ।
यस्त्यक्त्वा मां च मुद्रां च, परिव्रज्यामुपाददे ।।२९०।। * तं ६-१० ।। . ध्रुवा च २. ६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। 0 लुङ्की० ६२० ।। १. आर्द्राः १० टि० ।। * ०र्षि १-५ ।। । रूपरिद्धि हि सौवास्य नयस्याश्चालना भवेत् ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org