________________
४९६ - श्रीतिलकाचार्यविरचितटीकायुतम् .
दुर्भिक्षे क्षपिते तस्मिन्, पाटलीपुत्रपत्तने । साधुसङ्घोऽमिलत् सर्वो, यद्यस्यायाति तत्ततः ।।३०४ ।। अङ्गमध्ययनं वापि, उद्देशश्चूलिकापि च । एकादशाङ्गी सङ्घन, सर्वमादाय मेलिता ।।३०५ ।। दृष्टिवादस्य चिन्तायां, भद्रबाहुगुरुः स्मृतः । युगप्रधानभूतोऽस्ति, स चतुर्दशपूर्वभृत् ।।३०६।। नेपालदेशमार्गस्थं, सङ्घोऽथ निशमय्य तम् । साधुसङ्घाटकं प्रेषीत्, तदानयनहेतवे ।।३०७।। सोचे ध्यानं महाप्राणं, मयारब्धं समस्ति यत् । द्वादशाब्धा च तत् साध्यं, तदसिद्धौ च नैष्यते ।।३०८।। कार्ये क्वापि महाप्राणे, सिद्धेऽस्मिन् सूत्रतोऽर्थतः । चतुर्दशापि पूर्वाणि, गुण्यन्तेऽन्तर्मुहूर्ततः ।।३०९।। तदुक्तं स्माह सङ्घस्य, तदागत्य मुनिद्वयम् । सेर्घ्यः सङ्घोऽप्यथाहूया-न्यौ मुनी पुनरादिशत् ।।३१०।। गत्वासौ गणभृद्वाच्यः, सङ्घाज्ञां यो विलङ्घते । . प्रायश्चित्तं भवेत् तस्य, किमित्येतनिवेद्य तम् ।।३११।। । कार्यः सङ्घन बाह्योऽसा-विति चेद् वक्ति स स्वयम् । तद्यूयमपि तद्दण्ड-योग्यास्तर्हि भविष्यथ ।।३१२ ।। ताभ्यां गत्वा तथैवोक्ते, गुरवोऽप्येवमूचिरे । मैवं कार्षीत् तत्र भवान्, सङ्घः किन्तु करोत्विदम् ।।३१३।। कृत्वा प्रसादं मे श्रीमान्, सङ्घः प्रेषयतादिह । शिष्यान् सप्रतिभास्तेभ्यो, दास्येऽहं सप्तवाचनाः ।।३१४ ।। तत्रैकां वाचनां दास्ये, भिक्षाचर्यात आगतः । कालवेलात्रये नित्यं, वाचनात्रितयं पुनः ।।३१५ ।। तिस्रश्च वाचनाः सान्ध्यप्रतिक्रान्तेरनन्तरम् ।
एवं सङ्घस्य कार्यं स्यान्-मत्कार्यस्यापि न क्षतिः ।।३१६ ।। * एयुषाम् ३-५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org