________________
४९२ - श्रीतिलकाचार्यविरचितटीकायुतम् ।
मुनिरूचे महामूल्यः, क्षिप्तः कथमसाविह ? । रक्षता जीवितमिव, मया नीतोऽत्र कष्टतः ।।२५३।। कोशावक् कम्बले पङ्क-क्षिप्ते किं मूढ ! दूयसे ? । दूयसे किं न चारित्रं ?, क्षेप्स्यन् विषयकर्दमे ।।२५४।। कम्बलस्यास्य विदधे, मूल्यं लक्षं परीक्षकैः । चारित्रस्य तु नो मूल्यं, हन्त ! चिन्तामणेरिव ।।२५५।। . . स्त्रीणां चन्दनिकाप्राय-कायानां सङ्गमेन किम् । पवित्रं मूर्ख ! चारित्रं, मलिनीकुरुषे कथम् ? ।।२५६।। कोशाया देशनामेनी, निशम्य प्रतिबुद्धवान् । मुनिः कोशामुवाचैवं, गुरुस्त्वमसि मेऽधुना ।।२५७।। नरके निपतन्तं मां, त्वमाद्योद्धृतवत्यसि । . भ्रश्यन्मव्रतहर्म्यस्या-वष्टम्भस्तम्भिकाऽभवः ।।२५८ ।। यद्वाराज्ञामप्यातपे च्छाया, श्रीकरी यद्वा श्रीकरी न किम् ? । तेषामेव न किं ध्वान्ते, दीपिका मार्गदीपिका ? ।।२५९।। एवं ममापि योषापि, जाता त्वमुपकारिणी । भवतापस्य विच्छेदात्, सन्मार्गे न्यसनादपि ।।२६० ।। जाने श्रीस्थूलभद्रस्य, बोधदीपोऽस्ति ते हृदि । तद्वाग्रसाच्च कल्याणाः, सप्तापि तव धातवः ।।२६१।। अवबुध्य प्रबुद्धन्तं, कोशा साधुमवोचत । ब्रह्मव्रतस्थयाप्येव-मियन्तं समयं मया । ।।२६२।। एतावान् विहितः खेदः, प्रतिबोधकृते तव । क्षिप्तं स्यन्दनिकायां स्यान्-मलिनं वसनं शुचि ।।२६३।। पूर्वं त्रुटितकर्णस्य, कृते शस्त्रेण तत्क्षणे । कुण्डलाधारकृत् पश्चात्, सन्धिबन्धो विधीयते ।।२६४ ।। मिथ्या दुःकृतमेतर्हि, क्षमेथास्त्वं ममाधुना ।
यन्नाद्रक्षं चित्तदुग्धं, विषयौतोरितो मुने ! ।।२६५।। * रक्षित्वा ६-१० ।। ॐ नामाकर्ण्य ३-५ ।। ० करी स्यात् ६-१० ।। १. ०बिडालात् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org