________________
श्रीदशवैकालिकसूत्रम्
४९१ आहारैस्तादृशैस्तैस्तै-स्तादृश्यापि च वेश्यया । स्थूलभद्रं विना कोऽन्यः, क्षोभं याति न मानवः ? ।।२४०।। भोगार्थी प्रार्थनां कुर्वन्, कोशयैवमभाष्यत । वयं वेश्यास्तपोराशे !, न वश्याः स्युर्धनं विना ।।२४१ ।। मुनिरप्यवदन् मुग्धे !, कुतो दर्शनिनां धनम् । किं पाषाणे भवेद् वल्क: ?, किं स्याद् वियति कर्षणम् ?।।२४२।।
नेपालनृपतिर्लक्ष-मूल्यकं रत्नकम्बलम् । अपूर्वमुनये दत्ते, सावदत् तदुपानय ।।२४३।। अन्तःस्मरे बहिर्वारा-धारे वर्षति सर्वतः । शल्यमानः शरासारैः, पातोत्पातीव दुर्दरः ।।२४४ ।। व्रतहंसविनिर्मुक्त-मानसः स मुनिर्ययौ । जिनाज्ञावन्नदीरुल्ल-चयन् नेपालमण्डलम् ।।२४५।। तत्र नेपालभूपाला-लब्ध्वासौ रत्नकम्बलम् । निक्षिप्य वंशदण्डान्त-वेगेन ववले ततः ।।२४६।। अन्तराले चौरचरः, कीरः शैलाग्रपञ्जरे । ऊचे भिल्लानहो ! लक्षं, याति धावत धावत ।।२४७।। एयुभिल्लास्तमालोक्या-किञ्चन तेऽमुचंस्ततः । पुनरूचे शुको भिल्लान्, लक्षं गच्छति गच्छति ।।२४८।। भूयोऽपि तैः स धृत्वोचे, तव पार्श्वेऽस्ति किञ्चन । सत्येयं शुकगीति, ज्ञातुं त्वं पृच्छ्यसे वदः ।।२४९।। अभयं ते न ते लक्ष-मप्यादास्यामहे वयम् । सोऽथाभ्यधात् पुरस्तेषां, यथावृत्तां निजां कथाम् ।।२५०।। मुक्तस्तैः कृपया सोऽथ, क्षेमेणाऽगानिजं पुरम् । कोशाया आर्पयद् रत्न-कम्बलं स्वभ्रशम्बलम् ।।२५१।। कोशा चन्दनिकापङ्के, क्षिप्रमेव तमक्षिपत् ।
शेमुष्या पारिणामक्या, प्रतिबोधयितुं मुनिम् ।।२५२।। •०शि० १.३.४ ।। • दृषदि ६-१० ।। - सुभ० ६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। - प्रतिबोधयितुं साधुं, पारिणामिकधीवरा (रिव.५) २.५-१०, अयं मूलपाठ: १० टिप्पण्यामपि ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org