SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ४९० - श्रीतिलकाचार्यविरचितटीकायुतम् स्पर्धया स्थूलभद्रस्य, गृह्णात्येवमभिग्रहम् । गुरुस्तमुपयुज्याह, वत्स ! मैवमभिग्रही ।।२२७ ।। स्याद् भूभारधुरीणश्चेद्, भूनागः शेषनागवत् । . नावा चेद् वालुकामय्या, तीर्यतापारवारिधिः ।।२२८ ।। स्थाल्या मदनमा च, भवेद् रसवती यदि । ग्रीष्मे ग्रंक्षणगेहे स्यात्, तापनिर्वापणं यदि ।।२२९॥ . ततो भवानपि भवे-दित्यभिग्रहसाधकः । न सामान्योऽभिग्रहोऽय-मतिदुष्करदुष्करः ।।२३०।। न हि मे दुष्करोऽप्येष, कथं दुष्करदुष्करः । ततोऽवश्यं करिष्येऽह-मित्यूचे स पुनर्गुरुम् ।।२३१ ।। भावी ते प्राक्तपो भ्रंश-स्तत्रगस्येत्यवग् गुरुः । . जिगीषुर्नूतनं द्यूती, पुराणमपि हारयेत् ।।२३२।। किञ्च श्रीस्थूलभद्रेण, सार्द्ध स्पर्धास्तु कात्र च ? । ' एकैक एव युष्माभिः, पालितो यदभिग्रहः ।।२३३।। पञ्चेषुः पञ्चवक्त्रः स्त्री-कटाक्षो दृग्विषोरगः । . चित्रौकः कूपमण्डूका-सनं त्रिष्वप्यसौ स्थितः ।।२३४ ।। अवमत्य गुरोर्वाच-महंयुः स तपोधनः । उद्दामस्थामकामौकः, कोशाधाम जगाम सः ।।२३५ ।। दध्यौ कोशा स्थूलभद्र-स्पर्द्धयाऽसाविहागमत् । अजानान इवात्मानं, क्व कस्तूरी ? क्व कर्दमः ? ॥२३६।। तथापि तं सा प्राणंसीद्, वसत्यैतेन याचिता । तां चित्रशालिकां तस्या-र्पयत् तत्र विवेश सः ।।२३७ ।। अदृष्टपूर्वी तादृक्षं, चित्रं पश्यन्नितस्ततः । बभ्राम सर्वतस्तत्र, ग्राम्यवन्नगरं गतः ।।२३८ ।। तं भुक्तषड्रसाहारं, ययौ कोशा परीक्षितुम् । मृगाक्षीं वीक्ष्य तादृक्षां, तां मुनिः क्षुभितः क्षणात् ।।२३९ ।। * ०यया २ ।। - प्रक्षण० ४.५, मर्षण ०६-९ ।। १. सघन० १० टि० ।। २. सिंहः १० टि० ।। 0 ०क्ष १.३.१०।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy