________________
४८९
श्रीदशवैकालिकसूत्रम् प्रबुद्धाथाह सा स्वामिन् !, चिरं त्वं मेऽभवः पतिः । पतिवांनुसरणं, नारीणां नाथ ! युज्यते ।।२१४ ।। ब्रह्मचर्यं त्वयोपात्तं, ममाऽप्यस्तु तदेव तत् । परं राजवशाहं तत्, तन्नियुक्तं नरं विना ।।२१५ ।। नित्यं व्याख्याश्रुतेः साथ, मर्त्यजन्मतरोः फलम् । सम्यक्त्वयुक्तं निःशेष-मार्हतं धर्ममाददे ।।२१६ ।। बोधरत्नैककोशाथ, कोशा सा श्राविकोत्तमा । वेश्यापि शुद्धलेश्याभूत्, कुलेन विमलेन किम् ? ।।२१७ ।।
वर्षात्यये त्रयस्तेऽथ, साधवः पावका इव । निर्वाह्याभिग्रहानुग्रान्, गुरूपान्तमुपाययुः ।।२१८ ।।
आगच्छतां गुरुस्तेषां, किञ्चिदुत्थाय पृष्टवान् । स्वागतं भवतामासी-दहो ! दुष्करकारकाः ।।२१९ ।। स्थूलभद्रमथायान्तं, प्रेक्ष्योत्थाय ससम्भ्रमः । पदानि कतिचिद् दत्वा-भिमुखानि गुरुः स्वयम् ।।२२० ।। ऊचे सुधामुचा वाचा, सिञ्चन्निव मुनेर्वपुः । दुःकरदुष्करकार !, स्वागतं स्वागतं तव ।।२२१।। . प्रतिपत्तिं गुरोर्दृष्ट्वा, स्थूलभद्रमुनिं प्रति । पूर्वागतास्ते मुनयः, साभ्यसूयास्तदाभवन् ।।२२२ ।। . मन्त्रिसूनुरिति च्छन्दा-नुवर्त्तित्वं गुरोरिदम् । नो चेत् कष्टक्रियास्माकं, वणिक्पुत्राः परं वयम् ।।२२३।। ईदृक्क्रियोऽप्यसावूचे, कृतदुष्करदुष्करः । एष्यद्वर्षे भविष्यामो, वयं तीत्यभिग्रहाः ।।२२४ ।। एवं चेतसि सामर्षा, गमयन्त्यष्टमासिकीम् । अन्तर्व्वलन्तस्ते सर्वे, कारीष इव पावकः ।।२२५ ।। हर्षाद् वर्षागमेऽवादीद्, गुरुं सिहगुहामुनिः । कोशौकसि चतुर्मासी, करिष्ये स्थूलभद्रवत् ।।२२६ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org