SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ४८८ श्रीतिलकाचार्यविरचितटीकायुतम् दूरे तुरङ्गमातङ्गा, दम्यन्ते हरयोऽपि हि । नाथ ! त्वयैव दान्तानि, दुर्दमानीन्द्रियाणि तु ।।२०१।। न वज्रमपि येषां स्याद्, भेदकृत् त्रिदिवौकसाम् । भिद्यन्ते तेऽपि कान्तानां, कटाक्षैस्तत्क्षणादपि ।।२०२।। कान्तानां स्नेहलालापा, मन्त्रजापा इव क्षणात् । वशयन्त्याशु चेतांसि, चिरसंयमिनामपि ।।२०३।। . शचीपतिरपि प्रेक्ष्या-हल्यां यत्तापसीमपि । अकामयत तत्कोऽन्यः, स्त्रियं दृष्ट्वा न मुह्यति ?।।२०४ ।। नाथ ! त्वमेव मामेवं, न तृणायाप्यमन्यथा । रम्भातोऽप्यधिकं दृष्टा, युवभिः सम्भ्रमादहम् ।।२०५।। त्वयैव विषयाः स्वस्मात्, स्वामिनिर्विषयाः कृताः । नाथ ! क्षमस्व मे प्राज्या, उपसर्गा मया कृताः ।।२०६।। प्रभो ! ममैव बोधाय, कृपया त्वमिहागतः । नो चेद् वेश्यागृहं कुत्र ?, त्वादृशाः क्व च साधवः ? ।।२०७।। सद्यः प्रसद्य तन्मे त्वं, निर्मलं धर्ममादिश । . दुस्तरापारसंसार-पारावारस्य पारदम् ।।२०८।। पारयित्वा ततो ध्यानं, मुनिर्निश्यपि तत्पुरः । दम्भोलिदुर्भिदस्वान्तः, सार्वज्ञं धर्ममादिशत् ।।२०९।। दुरुत्तरेऽत्र संसारे, कान्तारे कल्पवृक्षवत् । दुर्लभं मानुषं जन्म, भद्रे ! लब्धं त्वया परम् ।।२१० ।। वेश्यात्वरक्षसाक्रान्तं, जातं बिभीतकद्रुवत् । विवेकिनामनाक्रम्या, छायाऽप्यस्ति ततस्तव ।।२११ ।। दृग्विषेवोरगी वेश्या, निरीक्ष्यार्थेक्षितैरपि । बाह्यप्राणानिवार्थान्या-गृह्णीते मूर्छितानरान् ।।२१२ ।। तद्भद्रे ! युज्यते नैतद्, वेश्यात्वं कर्मबन्धकृत् । सद्यो यतः पतत्यात्मा, भवावर्ते दुरुत्तरे ।।२१३।। * हमागमः १-४, व्हागमः ५ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy