________________
श्रीदशवैकालिकसूत्रम्
४८५ दीपिकामात्रशिखिवान्, कथ्यते नाम्भसां निधिः । न च व्यजनवातेन, पात्यो ब्रह्माण्डमण्डपः ।।१६३ ।। बध्यते देवि ! पक्षीन्द्रो, नोर्णनाभस्य लीलया । स्थूलभद्रः कथमपि, न ध्यानाञ्चाल्यते त्वया ।।१६४ ।। किं चसहामुनान्याऽऽनीतास्ति, दिव्या व्रतक्रिया प्रिया । पुण्यप्रागल्भ्यलभ्यासौ, देवानामपि दुर्लभा ।।१६५।। .
कोशा प्रोवाच हे सख्यो !, माहात्म्यं वित्थ किं न मे ? । आश्वेव मयि दृष्टाया-मनिष्टा सा भविष्यति ।।१६६।। दीपिकायाः प्रभा तावद्, यावन्न स्यात् प्रभा रवेः । तावन्मणी महार्घान्या, यावञ्चिन्तामणिर्न हि ।।१६७ ।। अथोचिरे पुनः सख्यो !, देव्यद्य ज्ञास्यतेतराम् । सौभाग्यस्य त्वदीयस्य, वैराग्यस्य मुनेस्तथा ।।१६८ ।।
सखीरवगणय्यागा-दथ कोशाभिमानिनी । मनःशयं बोधयन्ती, किलभूषणारवैः ।।१६९।। भूषारत्नौघकान्त्या च, हरन्ती सर्वतस्तमः । चित्रशालागृहद्वारं, प्राप्तापश्यत् स्ववल्लभम् ।।१७० ।। आललाप प्रियालापैः, प्रेमसर्वस्वगर्भितैः । पूरयन्ती कर्णहृदौ, प्रवाहैरामृतैरिव ।।१७१।। स्मारयन्त्यनुभूतानि, रह:प्राक्रीडितानिव । ऊचे मां विधुरां नाथ !, निर्वापय दृशापि हि ।।१७२।। न तद्वाग्भल्लिभिस्ताभि-स्तीक्ष्णाभिरप्यभेदि सः । संसारासारताध्यान-वज्रपञ्जरमध्यगः ।।१७३।। सख्यः पुनस्तदाहुस्ता-मेतत् ते फल्गुवल्गितम् ।
शैले परिणमन्ती स्याद्, वृथा करिघटा न किम् ?।।१७४ ।। १.दीपकप्रमाणशिखया समुद्रो न भण्यते कथं (यतः) जोयणसहस्ससोलससलिलसिहसेहरो वि जलरासी [ ] इत्युक्तत्त्वात् ९ टि० ।। * ०खिना ५, ०खया २.६-१० ।। २. ऊर्णनाभतन्तुना ९ टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org