________________
४८४ श्रीतिलकाचार्यविरचितटीकायुतम्
अपि चैवंविधाहार-भोजिनः क्व व्रतं भवेत् ? । सुभाषितमिदं किं न, त्वयाश्रूयत ? हे सखि ! ।।१५२।। विश्वामित्रपरासरप्रभृतयो, ये चाम्बुपत्राशिनस्तेऽपि स्त्रीमुखपङ्कजं सुललितं, दृष्ट्वापि मोहं गताः । आहारं सघृतं पयो-दधियुतं, ये भुञ्जते मानवास्तेषामिन्द्रियनिग्रहः कथमहो !, दम्भैकरूपं जगत् ।।१५३।। शार्दूलविक्रीडितम् स्याञ्चेद् व्रतचिकीरेष, तदुद्यानादिके वसेत् । असहिष्णुर्वियोगं मे, नूनमत्रागमत् प्रियः ।।१५४ ।। सख्यपि स्वामिनीमूचे, देवि ! दृष्टिरमुष्य सा । यया चारित्रमात्मीय-मस्खलन् पालयिष्यति ।।१५५ ।। स्वपरीक्षितुमत्रागा-निष्कवनिःकषोपले । दुर्भिदां ध्यानवज्राङ्गी, चाङ्गीकृत्य स्थितोऽस्त्यसौ ।।१५६।। गृह्णन्नमूनप्याहारान्, कामेनैष न बाध्यते । महायोगी स एवेह, विषं योऽत्ति च जीवति ।।१५७।। .
कोशाऽवग् मम सौभाग्यं, स्नेहं चास्य पुनर्मयि । किं त्वं न वेत्सि नैवास्थान्-मां विना क्षणमप्यसौ ।।१५८ ।। आसीदेवं पुरेत्यूचे, सापि किं त्वधुना सखि ! । परिवर्तोऽस्य सञ्जज्ञे, कांस्यपात्रवदापणे ।।१५९।। एवं तयोर्वदन्त्योस्तु, प्रदोषः समजायत । कृत्वाथ स्फारशृङ्गारं, कोशाचालीन्मुनिं प्रति ।।१६० ।। सख्यः प्रचलितां कोशा-मूचुः स्वामिनि ! मागमः । विचार्य कार्यकारी हि, प्राप्नोति न पराभवम् ।।१६१।। न मेषयोषया चाल्प-श्चामीकरमहीधरः । मक्षिकापादघातेन, त्रैलोक्यं नैव कम्पते ।।१६२।।
*शोचे ६-१०
तासांवदन्तीनां ६-१०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org