________________
४६७
श्रीदशवकालिकसूत्रम् गत्वोपाध्यायपार्श्वेऽथ, किं तत्त्वमिति पृष्टवान् । स उवाच विना वेदां-स्तत्त्वमन्यदितोऽपि किम् ? ।।२२।। शय्यम्भवोऽवदन्मैवं, बालवन् मां प्रतारय । तत्त्वं सम्यग् ममाख्याहि, माभूविश्वस्तवञ्चकः ।।२३।। तस्मिंस्तथाप्यनूचाने-ऽनूचाने खड्गमाकृषत् । तत्त्वं कथयसीदानी, न चेच्छेत्स्ये शिरस्तव ।।२४।। अथावादीदुपाध्यायः, पूर्णो मे समयोऽधुना । कथ्यं तत्त्वं शिरश्छेदे, वेदेष्वप्युक्तमस्त्यदः ।।२५।। शृणु तत्त्वमहो वत्स !, भवाम्भोधेस्तरीनिभम् । तत्त्वं धर्मोऽर्हतामेव, सर्वाप्याजीविकापरा ।।२६।। अधस्तादस्य यूपस्य, प्रतिमास्ति मणीमयी । आर्हती पूज्यते सात्र, ततो निर्विघ्नतेह भोः ।।२७।। ततो यूपमुपाध्याय-स्तमुत्पाट्य तथास्थिताम् । तामर्हत्प्रतिमां रात्नी, दर्शयामास तत्पुरः ।।२८।। प्रतिमादर्शनादेव, सप्रबुद्धो व्यचिन्तयत् । नूनं देवोऽयमेवेति, गुरवस्ते च साधवः ।।२९।। शय्यम्भवस्ततस्तुष्ट-स्तत्त्वरत्ननिवेदनात् । उपाध्यायस्य नत्वादात्, तं यज्ञोपस्करं तदा ।।३०।। शय्यम्भवोऽथ निर्गत्य, त्यक्त्वा विषमिवाखिलम् । शोधं शोधं सुसाधू ता-वागादाचार्यसन्निधौ ।।३१।। तत्राचार्यं नमस्कृत्य, कृत्यवेदीत्यभाषत । धर्मतत्त्वं ममाख्यात, भवाकूपारपारदम् ।।३२।।
अथोपयुज्य विज्ञाया-चार्याः शय्यम्भवं पुरः । साधुधर्मं समाचख्यु-श्चक्षुस्तत्त्वविलोकने ।।३३।। देवाधिदेवः श्रीवीत-राग एव हि देवता ।
यो गुणैकमयं स्वामी, दोषैर्वृषादिवोज्झितः ।।३४।। ।। १. उपाध्याये १० टि ।। * ०व ६-१० ।। . गुणैकमय इव यो २.६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org