SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ श्रीतिलकाचार्यविरचितटीकायुतम् १ पुरं राजगृहं रोज-प्रतिमं काम्यमण्डलम् । सदानभोगं सद्वृत्तं, शुद्धवर्णं स्फुरन्मृगम् ।।९।। पुरे तत्र निरैक्षिष्ट, भट्ट शय्यम्भवाभिधम् । विकसत्कान्तिकल्लोलं, माणिक्यमिव रोहणे || १० || साधुवृन्दावृतस्तत्र, तदागात् प्रभवप्रभुः । आरामं मण्डयामास, कल्पद्रुरिव पुष्पितः ।। ११ । । शय्यम्भवस्तदानीं च, मेलितानेकयाज्ञिकः । यज्ञमज्ञकृतोत्साहं, यज्ञवाटेऽस्ति कारयन् ।।१२।। साधुसङ्गाटकं तत्रा - नुशिष्य प्रेषयत् प्रभुः । शय्यम्भवं भवाम्भोधे-रुद्धर्तुं करुणापरः ।।१३।। अथोल्लसद्वन्दनमालिकाङ्क-द्वारं समुत्तम्भितकेतुदण्डम् । चखालबद्धच्छगलं च वेदि-मध्येद्धधूमध्वजधूममालम् ।।१४।। उपजातिः यज्ञाङ्गवस्त्वर्पणधावमान-सोल्लुण्ठभूयिष्ठवटुं समन्तात् समुच्छलद्वैदिकमन्त्रवर्णो-दात्तस्वनानन्दितयाज्यवर्गम् ।।१५।। उपजातिः 1 ४६६ दृष्ट्वा तौ श्रमणौ यज्ञ-पाटं पाटवशालिनौ । भिक्षार्थमिव गत्वान्त-र्धर्मलाभमवोचताम् ।।१६।। . याज्ञिका बटुकानूचुः, शुद्रौ कथमिह । यातुधाना इवैतौ यद् - यज्ञविध्वंसकारिणी ।। १७ ।। निस्सारयत तन्मक्षु, मैषां स्पृष्टिर्भवत्विह । निःकासितौ ततस्तौ तै र्बटुभिर्यज्ञवाटतः ।। १८ ।। शय्यम्भवं श्रावयितुं, तौ निर्यान्तावथोचतुः । अहो ! कष्टमहो ! कष्टं, तत्त्वं विज्ञायते न हि ।। १९ ।। शय्यम्भवोऽपि तद्वाचं, सुधारससहोदराम् । द्वारदेशस्थितः श्रुत्वा, शुद्धात्मा दध्यिवानदः ।। २० ।। शान्ता दान्ता महात्मानः, शुद्धचित्तास्तपस्विनः । एते वदन्ति नासत्यं, सर्वसत्त्वहितैषिणः ।।२१।। १. चन्द्रविमानम् १० टि० ।। १० टि० ।। ४. दीप्ताग्निधूममालम् १० टि० ।। ५. राक्षसाः १० टि० Jain Education International गृहंकिल सुम० २.६ १० ।। २. पशुम् १० टि० ३. यज्ञीयपशुबन्धनकाष्ठम् For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy