________________
४५४
श्रीतिलकाचार्यविरचितटीकायुतम्
तथा
तेसिं गुरूणं गुणसायराणं, सुयाण मेहावि सुहासियाइं । चरे मुणी पंचरए तिगुत्तो, चउक्कसायावगए स पूज्जो ।। १४ ।।
तेषां गुरूणां गुणसागराणां श्रुत्वा । सुभाषितानि - अत्रामुत्रोपकारकाणि । मेघावी मुनिश्चरति । पंचरतः - पञ्चसु महाव्रतेषु समितिषु च रतः । त्रिगुप्तः, चतुःकषायापगतः । स पूज्यः ।।
प्रस्तुतफलाभिधानेनोपसंहरन्नाह
गुरुमिह सययं पडियरिय मुणी, जिणमयनिउणे अभिगमकुसले । धुणिय रयमलं पुरेकडं भासुरमउलं गई गइ त्ति बेमि ।। १५ ।। गुरुमिह - मर्त्यलोके । सततं प्रतिवर्य विधिनाराध्य मुनिः जिनमतनिपुणः । अभिगमकुशलः- अभिमुखो गमो यस्य सोऽभिगमः प्राघूर्णकः तत्प्रतिपत्तौ कुशलः । प्राघूर्णकादिप्रतिपत्तिदक्षः । धूत्वा रजोमलं पुराकृतम् । भास्वराम्-तेजोमयीम् । अतुलाम्-अनन्यसमाम् । गतिम् - सिद्धिरूपाम् । गतः । इति ब्रवीमीति प्राग्वत्
'
।। समाप्तो विनयसमाध्यध्ययनतृतीयोद्देशकः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org