________________
श्रीदशवैकालिकसूत्रम्
४५३ स्वयमन्यपुरतः स्वगुणवर्णनेन भावित आत्मा येन स तथा । अकौतुकश्च-नटनर्तकादिषु । सदा यः स पूज्यः ॥
किं च
गुणेहिं साहू अगुणेहिं साहू, गिन्हाहि साहू गुण मुंच साहू । वियाणई अप्पगमप्पएणं, जो रागदोसेहिं समो स पूजो ।।११।।
गुणैः-अनन्तरोक्तैर्विनयाद्यैः साधुः । तद्विपरीतैः अगुणैः असाधुः । ततो गृहाण साधुगुणान्, मुञ्च असाधुगुणान् । वियाणइ त्ति प्राकृतत्वादिनन्तस्याप्येवं प्रयोगः, ततश्चैतं पूर्वार्दोक्तमुपदेशं विशेषेण जानाति-ज्ञापयति । आत्मानमात्मना यः। रागद्वेषयोः समः-न रागवान् न द्वेषवान् । स पूज्यः ।।
तहेव डहरं च महल्लगं वा, इत्थी पुमं पव्वइयं गिहिं वा । नो हीलए नो वि अखिसएजा, पंभं च कोहं च चए स पुज्जो ।।१२।।
तथैव डहरं वा महल्लकं वा मध्यमं वा । स्त्रियं वा पुमांसं वा नपुंसकं वा प्रव्रजितं वा गृहिणं वा अन्यतीर्थिकं वा । उपलक्षणत्वात् सर्वत्रोभयग्रहणात् तृतीयग्रहणम्।
न हीलयति-नावजानाति । न खिसयति-न निन्दयति, हीलनखिसनयोश्च कारणं . स्तम्भं क्रोधं च त्यजति यः स पूज्यः ।।
- किं च... जे माणिया सययं माणयंति, जत्तेण कनं व निवेसयंति ।
ते माणए माणरिहे तवस्सी, जिइंदिए सञ्चरए स पूजो ।।१३।।
ये मानिताः अभ्युत्थानादिभिः । सततं शिष्यान् । मा नयन्ति-मा-ज्ञानादिभूतीः, नयन्ति-प्रापयन्ति । श्रुतोपदेशस्मरणवारणादिभिः यत्नेन कन्यामिव निवेशयन्ति । यथा मातापितरौ गुणैर्वयसा च संवर्ध्य कन्यायोग्यभर्तरि स्थापयन्ति । एवम् आचार्य · शिष्यं सूत्रार्थविज्ञं कृत्वा महत्याचार्यपदे स्थापयन्ति । तान्-ईदृशान् गुरून् । यो मानयति । अभ्युत्थानादिना मानार्हान् तपस्वी जितेन्द्रियः सत्यरतः स पूज्यः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org