________________
४५२ . श्रीतिलकाचार्यविरचितटीकायुतम् ।
मुहुत्तदुक्खा हु भवंति कंटया, अओमया तेवि तओ सुदुद्धरा । वायादुरुत्ताणि दुरुद्धराणि, वेराणुबंधीणि महाभयाणि ।।७।।
मुहूर्तदुःखा:-अल्पकालदुःखाः । भवन्ति । कण्टकाः अयोमयास्तेऽपि । ततः-कायात् । सूद्धराः-सुखेनोद्धियन्ते व्रणकर्म च क्रियते । वाग्दुरुक्तानि पुनः दुरुद्धराणि-दुःखेनोध्रियन्ते मनोलक्षवेधनात् । श्रवणतः प्रद्वेषादिना इह परत्र च वैरानुबन्धीनि । अत एव महाभयानि-कुगतिपातादिभयहेतुत्वात् ।।
अपि चसमावयंता वयणाभिघाया, कनंगया दुमणियं जणंति । धम्मुत्ति किचा परमम्मग्ग सूरे, जियंदिए जो सहई स पूज्जो ॥८॥
समापतन्तः-समं-समकालम्, आ-सामास्त्येन अभिमुखं, पतन्तः । वचनाभिघाताः-खरादिवचनप्रहाराः । कर्णंगताः सन्तो दौर्मनस्यं जनयन्ति । धर्म इति कृत्वा । परमानाः शूराः-दानशूर-समरशूरापेक्षया प्रधानशूराः । जितेन्द्रियः सन् । यः सहते-न तु तैर्विकारमादर्शयति । स पूज्यः ।।
तथाअवनवायं च परंमुहस्स, पञ्चक्खओ पडिणियं च भासं । ओहारिणिं अप्पियकारणिं च, भासं न भासिज सया स पूजो।।९।।
अवर्णवादं च । पराङ्मुखस्य-पृष्ठतः परोक्ष इत्यर्थः । प्रत्यक्षतः । प्रत्यनीकाम्-अपकारिणी, चौरस्त्वमित्यादिकां भाषाम् । अवधारिणीम् अप्रियकारिणी च भाषां न भाषेत स पूज्यः ।।
अलोलुए अकुहए अमाई, अपिसुणे आवि अदीणवित्ती । नो भावए नोविअ भाविअप्पा, अकोउहल्ले य सया स पूजो ।।१०।।
अलोलुपः-आहाराद्यलुब्धः । अकुहकः-अव्यंसकः, इन्द्रजालादिमायारहितः। अमायी-कौटिल्यशून्यः । अपिशुन:-अदुर्जनः । अदीनवृत्तिः-अहाराद्यलाभेऽपि न कुमुखः । अमुकपुर:तोऽहं भवता वर्णनीय इति परं न भावयेत् । नापि च भावितात्मा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org