________________
श्रीदशवैकालिकसूत्रम्
४५१
सत्यवादी - अविरुद्धवक्ता । अवपातवान् नमनशीलः । वाक्यकर :- गुर्वादेशकरः ।
यः स पूज्यः ।।
किं च
अन्नायउंछं चरई विसुद्धं, जवणट्टया समुयाणं तु निचं । अलद्धयं नो परिदेवइज्जा, लद्धं न विकत्थई स पूज्जो ॥१४ ॥
1
यथा क्षेत्रेषु लूनेषु पतितकणचुण्टनम् उञ्छम् उच्यते । तथाज्ञातेषु प्रान्तकुलेषु अल्पाल्पतद्दत्तभिक्षाग्रहणम् अज्ञातोञ्छम् । तत् चरति- भुङ्क्ते यः । तदपि विशुद्धम्उद्गमादिदोषरहितम् । यापनार्थम् - वपुः पालनार्थम् । समुदानम्-भैक्षम् । नित्यम् । तदपि अलब्ध्वा-अनासाद्य । न परिदेवयेत् न खेदं यायात्, यथा मन्दभाग्योऽहं, अशोभनो वायं देश इति । लब्ध्वा च । न विकथ्यते - न श्लाघते, सुपुण्योऽहं, शोभनो वायं देश इति स पूज्यः ।।
किं च
संथारसिज्वासणभत्तपाणे, अपिच्छया अइलाभेवि संते । जो एवमप्पाणभितोसइज्जा, संतोसपाहन्नरए स पूज्जो ।। ५ ।। संस्तारकशय्यासनभक्तपानेषु लाभे सति । अल्पेच्छता - अमूर्च्छया
अधिकाग्रहणम् । य एवमात्मानमभितोषयति । सन्तोषप्राधान्येन रतः स पूज्यः ।। इन्द्रियसमाधिद्वारेण पूज्यतामाह
सक्का सहिउं आसाई कंटया, अओमया उच्छहया नरेणं । अणासए जो उ सहिज्ज कंटए, वईमए कनसरे स पूज्यो ।।६।।
शक्याः सोढुम् । अयोमयाः कण्टकाः । उत्साहता नरेण । आशयाद्रव्यलिप्सया । यस्त्वनाशया - फलाप्रत्याशया । सहेत कण्टकान् । वाङ्मयान्कर्कशवागात्मकान् । कर्णशरान् - कर्णगामिनः । स पूज्यः ।।
एतदेव स्पष्टयति
Jain Education International
1
For Personal & Private Use Only
www.jainelibrary.org