________________
४५० श्रीतिलकाचार्यविरचितटीकायुतम्
॥ विनयसमाध्यध्ययनेतृतीयोद्देशकः ।। इह च विनीतः पूज्य इति दर्शयन्नाहआयरियग्गिमिवाहियग्गी, सुस्सूसमाणो पडिजागरिजा । . आलोइय इंगियमेव नशा, जो छंदमाराहयई स पुज्जो ।।१।।
यथा अग्निम् । आहिताग्नि:-ब्राह्मणः । शुश्रूषमाणः-इन्धनादिक्षेपेण । प्रतिजागर्ति-विध्यायन्तं रक्षति । एवं साधुः । आचार्य शुश्रूषमाणः-सम्यक् सेवमानः। प्रतिजागृयात्-तत्कृत्यसम्पादनेनोपचरेत् ।
आह पर:-प्रागप्येतदुक्तं, किं पुनरिदम् ?
-सत्यम्, प्रागाचार्यमेवाश्रित्योक्तम् । इह तु रत्नाधिकमप्यधिकृत्योच्यते । वक्ष्यति . च । “रायणीएसु विणयं पउंजे " [दशवै० ९.३.३] ..
प्रतिजागरणं चैवम्-आलोकितम्-निरीक्षितम् । इङ्गितम्-चेष्टितम् । आचार्टीयं ज्ञात्वा । यश्छन्दम्-अभिप्रायम् । आराधयति-शीते पतति प्रावरणालोकने तदानयति। इङ्गिते निष्ठीवनादौ शुण्ठ्याद्यानयति । स पूज्यः ।।।
प्रकान्तमेवाहआयारमट्ठा विणयं पउंजे, सुस्सूसमाणो परिगिज्झ वक्कं । जहोवइटुं अभिकंखमाणो, गुरुं तु नासाययई स पुजो ॥२॥
आचारार्थम्-ज्ञानाचारनिमित्तम् । विनयं प्रयुङक्ते । शुश्रूषमाणः-किमयं वक्ष्यतीति श्रोतुमिच्छन् । तदुक्तं वाक्यं परिगृह्य । यथोपदिष्टम् अभिकाङ्क्षन्अनेकार्थत्वात् कर्तुमिच्छन् । यो गुरुं नाशातयति- न हीलयति । स पूज्यः ।।
किं चरायणीएसु विणयं पउंजे, डहरावि य जे परियायजिट्ठा । नीयत्तणे वट्टइ सञ्चवाई, उवायवं वक्ककरे स पुज्जो ।।३।।
रात्निकेषु-ज्ञानादिरत्नैरभ्यर्चितेषु । विनयं प्रयुङ्क्ते । डहरा अपिं ये पर्यायज्येष्ठाः -चिरप्रव्रजिताः, तेषु वा । तथा एतान् गुणाधिकान् प्रति नीचत्वे यो वर्तते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org