________________
श्रीदशवैकालिकसूत्रम्
४४९ कालम्-शरदादिकम् । छन्दम्-इच्छारूपम् । उपचारम्-आराधनाप्रकारम्। चकारात्-अनूपदेशादिकम् । प्रत्युपेक्ष्य-ज्ञात्वा । हेतुभिः-कारणैः, श्लेष्मादिभिः । तैस्तैरुपायैः-गृहस्थावर्जनया । तत्तत्-श्लेष्मादिहरमशनादि । सम्प्रतिपादयेत् ।।
किं चविवत्ती अविणीयस्य, संपत्ती विणियस्स य । जस्सेयं दुहओ नायं, सिक्खं से अभिगच्छई ॥२१॥
विपत्तिरविनीतस्य-ज्ञानादिगुणानाम् । सम्पत्तिविनीतस्य-ज्ञानादिगुणानामेव। यस्यैतदुभयतः-अविनयविनयाभ्यां सकाशात् ज्ञानाद्यप्राप्तिप्राप्ती स्यातामिति । ज्ञातम्भवति । स शिक्षाम्-ग्रहणासेवनारूपाम् । अभिगच्छति-प्राप्नोति ।
एतदेव दृढयन्त्रविनीतफलमाहजे यावि चंडे मइइड्डिगारवे, पिसुणे नरे साहसहीणपेसणे ।
अदिट्ठधम्मे विणए अकोविए, असंविभागी न हु तस्स मुक्खो ।।२२।। : यश्चापि-प्रव्रजितोऽपि । रोषणः । ऋद्धिगारवमतिः। पिशुन:पृष्ठमांसखादकः। नरः-नरव्यञ्जनं क्लीबप्रायः । साहसिक:-अकृत्यकरणपरः । हीनप्रेषणः-प्रेषणे हीनः, अकिञ्चित्करः । अदृष्टधर्मा-सम्यगज्ञातधर्मा । विनये अकोविदः। असंविभागी-यत्र क्वचनलाभे सति न संविभागवान् । च इत्थंभूतोऽधर्मः तस्य न मोक्षः । विनयफलाभिधानेनोपसंहरन्नाहनिद्देसवित्ती पुण जे गुरूणं, सुयत्थधम्मा विणयंमि कोविया । तरित्तु ते ओघमिणं दुरुत्तरं, खवित्तु कम्मं गइमुत्तमं गय त्ति बेमि ।।२३।। ... निर्देशवर्तिनः पुनर्ये गुरूणां श्रुतधर्मार्थाः विनये च कर्तव्ये कोविदाः तीवा॑ ते एनं । ओघम्-भवाब्धिप्रवाहम् । दुरुत्तरम् । केवलित्वं प्राप्य क्षपयित्वा भवोपग्राहि कर्म । गतिमुत्तमाम्-सिद्धयाख्याम् । गता । इति ब्रवीमि इति पूर्ववत् ।।
॥ समाप्तो विनयसमाध्यध्यनद्वितीयोदेशकः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org