________________
श्रीदशवैकालिकसूत्रम्
जे आयरियउवज्झायाणं, सुस्सूसावयणंकरा ।
तेसिं सिक्खा पव ंति, जलसित्ता इव पायवा ।।१२।।
ये आचार्योपाध्याययोः । शुश्रूषावचनकराः - शुश्रूषा - वैयावृत्यं, वचनम्आदेशः, तत्कारिणः । तेषाम् - पुण्यवताम् । शिक्षा ग्रहणासेवनारूपा । प्रवर्धन्ते, जलसिक्ता इव पादपा । इति विज्ञाय विनयः कार्यः ।।
इहलोकार्थिनोऽपि लोका गुरुविनयं कुर्वतो दृश्यन्ते इत्याहअप्पणट्ठा परट्ठा वा, सिप्पा नेउणियाणि य । गिहिणो उवभोगट्ठा, इहलोगस्स कारणा ।। १३ ।। आत्मार्थम्-आत्मनो जीविकार्थम् । परार्थम् इदं शिक्षितं सन् पुत्रादिकं शिक्षयिष्ये । शिल्पानि - कुम्भादिकरणानि । नैपुण्यानि –लेख्यादिकलाकरणानि । गृहिण उपभोगार्थम् - अन्नपानोपभोगाय । इहलोकस्य कारणेन शिक्षन्ते ।। जेण बंध वहं घोरं परियावं च दारुणं ।
सिक्खमाणा नियच्छंति, जुत्ता ते ललिइंदिया ॥ १४॥
येन-इति द्वितीयार्थे तृतीया, यत् शिल्पादिकं शिक्षमाणाः । बन्धम् - दवरकादिना । व्यधम्-कम्ब्यादिना । घोरम्-तीव्रम् । परितापं च दारुणम्-निर्भर्त्सनादिवचनजनितं गुरोः सकाशात् । नियच्छन्ति - अनेकार्थत्वात् प्राप्नुवन्ति युक्ताः- शिल्पादिग्रहणे नियुक्ताः । ते ललितेन्द्रियाः - गर्भेश्वराः, राजपुत्रादयः ।।
तेवितं गुरुं पूइंति, तस्स सिप्पस्स कारणा । सक्कारंति नमसंति, तुट्ठा निद्देसवित्तिणो ।। १५ ।।
तेऽपि तं गुरुम्-बन्धादिकारकमपि । पूजयन्ति - पूजावचनैः । तस्य शिल्पस्य कारणात् । सत्कारयन्ति-वस्त्रादिभिः । नमस्यन्ति - पादयोर्लगित्वा । तुष्टाः-हृष्टाः। निर्देशवर्त्तिनः - तदाज्ञाकारिणः ।।
I
यदि तावदेतेऽपि तं गुरुं पूजयन्ति ततः
व० २.६ - १२ ।।
४४७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org