________________
४४६ श्रीतिलकाचार्यविरचितटीकायुतम्
पदत्रयं स्पष्टम् । छागा इव च्छागा:-अवज्ञास्पदं, छाता वा दुर्विनयेन छिन्नाङ्गाः। ते विकलेन्द्रिया:-दृक्कर्णनाशाच्छेदतः ।।
तथा
दंडसत्थापरिज्जुना, असब्भवयणेहिं य । कलुणाविवन्नछाया, खुप्पिवासाइपरिगया ॥८॥
दण्डशस्त्राभ्यां तदाघातैः । असभ्यवचनैश्च-खरकर्कशादिभिः । परिजूर्णा इव परिजूर्णा दुर्बलीकृताः । करुणाहेतुत्वात् करुणाः-दीनाः । विवर्णछाया:-निःशोभाः। क्षुत्पिपासाभ्यां परिगता:-कदन्नाल्पप्रायभोजनाः ।।
विनयफलमाहतहेव सुविणीयप्पा, लोगंसि नरनारीओ । दीसंति सुमेहता, इड्डिं पत्ता महायसा ॥९॥ स्पष्टः ।। देवानधिकृत्यैतदेवाहतहेव अविणीयप्पा, देवा जक्खा य गुज्झगा । दीसंति दुहमेहंता, आभिओगमुवट्ठिया ।।१०।।
देवा:-वैमानिकाः, ज्योतिष्काः । यक्षा:-व्यन्तराः । गुह्यकाः-भुवनपतयः । आगमचक्षुषा दृश्यन्ते । दुःखमेधमाना:-अनुभवन्तः । अभियोगः आज्ञापूर्वकं कर्मसु नियोजनं सोऽस्यास्तीत्यभियोगी, अभियोगिनो भावः आभियोग्यम् उपस्थिता-दासत्वं प्राप्ताः ।।
विनयफलमाहतहेव सुविणीयप्पा, देवा जक्खा य गुज्झगा । दीसंति सुहमेहंता, इड्डिं पत्ता महायसा ।।११।। स्पष्टः ।। अधुनाविशेषतो लोकोत्तरविनयफलमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org