SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् ४४५ 1 विनयम् - प्रागुक्तं कर्तुमिति शेषः । उपायेन - विनय एव मोक्षहेतुरित्यादि मृदुवचनकलापेन । चोइओत्तिं-गुरुणा प्रेरितः । यो नरः कुप्यति । सः-विनयप्रभवां दिव्यां श्रियमायान्तीं आत्मसाद् भवन्तीम् । दण्डेन । प्रतिषेधयति - निवारयति । उदाहरणं चात्र-कुरूपागतश्रीप्रार्थनाप्रणयभङ्गकारिणो दशारादयस्तद्विरहिता बभूवुः । तदभङ्गकारी तु कृष्णस्तद्युक्तोऽभूत् । ततश्च स कृष्णः सर्वत्र जगति श्रीपतिरिति ख्यातिं प्राप्तवान् ।। पुनरविनयदोषदर्शनार्थमाह तहेव अविणीयप्पा, उववज्जा हया गया । दीसंति दुहमेहंता, आभिओगमुवट्ठिया ।।५ ।। तथैवाविनीतात्मानः- आरोहचित्तेनाऽवहन्तः दुर्दान्ताः । औपवाह्या अपि - `राजवाहनयोग्या अपि । हया गजा दृश्यन्ते । दुःखम् - यवसादिवहनक्लेशं, विशिष्टखादनाद्यप्राप्तिरूपं च । एधमानाः - अनेकार्थत्वादनुभवन्तः । आभियोग्यम् - पारवश्यम्। उपस्थिताः-प्राप्ताः ।। एष्वेवं विनयफलमाह तहेव सुविणीयप्पा, उववज्झा हया गया । दीति सुहमेहता, इड्डि पत्ता महायसा ।। ६ ।। तथैव सुविनीतात्मानः- आरोहचित्तानुवर्त्तिनः । औपवाह्याः - राजादिवाह्याः । . हया गजा दृश्यन्ते । सुखमेधमानाः - सुखं यथा भवति एवं वर्धमानाः । ऋद्धिं प्राप्ताः - विशिष्ट भूषणालयभोजनादिभावतः प्राप्तर्द्धयः । महायशसः - विख्याताः । राजराजन्यादिवाह्यत्वेन ।। एतदेवाऽविनयफलं मनुष्यान् प्रत्याह तहेव अविणीयप्पा, लोगंसि नरनारीओ । दीसंति दुहमेहंता, छाया ते विगलिंदिया ।।७।। १. त्ति - प्रे० १.२.६-१२ ।। २. ०भूत् पुन० १.२.६-१२ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy