________________
४४४
-
श्रीतिलकाचार्यविरचितटीकायुतम्
। विनयसमाध्यध्ययने द्वितीयोद्देशकः ।। तस्येदमादिसूत्रम्मूलाउ खंधप्पभवो दुमस्स, खंधाउ पच्छा समुर्विति साला । साहप्पसाहा विरुहंति पत्ता, तओ से पुष्कं च फलं रसो य।।१।।
मूलात् स्कन्धप्रभवः थुण्डोत्पत्तिः । द्रुमस्य स्कन्धात् पश्चात् समुपयन्तिसमुत्पद्यन्ते । शाला:-शाखाः । शाखाभ्योऽपि प्रशाखा:-शाखोत्थाः, तेभ्योऽपि पत्राणि विरोहन्ति । ततः से-तस्य द्रुमस्य । पुष्पं च फलं च । रसश्च-फलगतः। एवमेतेन क्रमेण भवन्ति ।। एवं दृष्टान्तमुक्त्वा दार्टान्तिकयोजनामाह
एवं धम्मस्स विणओ, मूलं परमो से मुक्खो।। जेण कित्ती सुयं सिग्छ, निस्सेसं चाभिगच्छई ।।२।।
द्रुममूलवद् धर्मकल्पद्रुमस्य विनयो मूलम् । से-तस्य विनयमूलस्य । फल रसकल्पः परमो मोक्षः । स्कन्धादिकल्पानि देवलोकगमनसुकुलागमनानि ज्ञेयानि । येनेति तृतीया पञ्चम्यर्थे । यतो विनयात् पत्रकल्पां कीर्तिम्-सर्वत्र साधुवादरूपाम् । पुष्पकल्पं श्रुतं श्लाध्यम्-अङ्गप्रविष्टादि । निःशेषम्-सम्पूर्णगुरुदत्तमिहापि फलरसकल्पं तु मोक्षं कोऽप्यत्र भवे, कोऽप्यमुत्र वा । अधिगच्छत्ति-प्राप्नोति ।।
अविनयवतो दोषमाहजे य चंडे मिए थद्धे, दुव्वाई नियडी सढे । वुझई से अविणिअप्पा, कटुं सोयगयं जहा ।।३।।
यश्च चण्ड:-रोषणः । मृगः-अज्ञः । स्तब्धः-जात्यादिमदोन्मत्तः । दुर्वादी-विरूपभाषी । निकृतिमान्-मायावी । शठ:-कूटकृत् । एभ्यो दोषेभ्यो विनयं न करोति यः । उह्यते संसारश्रोतसा सो अविनीतात्मा । काष्ठं श्रोतोगतं नद्यादि प्रवाहयति तं यथा ।। किं च
विणयंपि जो उवाएण, चोइओ कुप्पई नरो । दिव्वं सो सिरिमिजंति, दंडेण पडिसेहए ॥४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org