________________
४४० श्रीतिलकाचार्यविरचितटीकायुतम्
पगईई मंदावि भवंति एगे, डहरावि य जे सुयबुद्धोववेया । . आयारमंतो गुणसुट्टियप्पा, जे हीलिया सिहिरिव भासकुज्जा ।।३।।
प्रकृत्या-स्वभावेनैव कर्मवैचित्र्याद् वयोवृद्धा अपि । मन्दा:-असत्प्रज्ञाः तथाविधबुद्धिरहिता भवन्ति । ये च डहरा अपि-वयसा लघीयांसोऽपि । श्रुतबुद्धयुपपेता:-सत्प्रज्ञावन्तः । द्वयेऽपि आचारवन्त:-ज्ञानाद्याचाराराधकाः । गुणेषु-संग्रहोपग्रहादिषु, सुस्थित आत्मा येषां ते सुस्थितात्मानः ते, न हीलनीयाः ये हीलिताः शिखीव-अग्निरिव हीलकान् । भस्मसात्कुर्युः ।।
विशेषेण डहरहीलनदोषमाहजे आवि नागं डहरंति नद्या, आसायए से अहियाय होइ । एवायरीयं पि हु हीलयंतो, नियच्छई जाइपहं खु मंदे ॥४॥
यश्चापि-कश्चित् । नागम्-सर्पम् । डहर इति-बाल इति । ज्ञात्वा आशातयतियष्ट्यादिना घट्टयति । स घट्टमानः । से-तस्य, घट्टकस्य । अहिताय भवति । एवम् आचार्यमपि-लघीयांसमपि । हीलयन् । जातिपथम्-द्वीन्द्रियादिजातिमार्गम् । मन्दः-अज्ञः । खु-निश्चयेन । नितरां गच्छति-याति । अनन्तं संसारं परिभ्रमतीत्यर्थः।।
अथैतद् दृष्टान्तदाटन्तिकयोर्महदन्तरमाहआसीविसो आवि परं सुरट्टो, किं जीवनासाउ परं नु कुजा । आयरियपाया पुण अप्पसना, अबोहिआसायण नत्थि मुक्खो ।।५।।
आसीविषश्चापि परं सुरुष्टः किं जीवनाशादपरं तु कुर्यात् । आचार्यपादाः पुनरप्रसन्नाः-आशातनया अप्रसन्नीकृताः । अबोधिम्-प्रेत्य धर्मानवाप्तिम् । आशातयतीति ईषिग्रन्थ्यासिवन्दिविदिकारितान्तेभ्यो युरिति युप्रत्यये आशातन:आशातनकारी । गुर्वाशातनायाश्च मिथ्याजनकत्वात् तत्कारिणः । नास्ति मोक्षः ।।
किं चजो पावगं जलियमवक्कमिजा, आसीविसो वावि हु कोवइजा । जो वा विसं खायइ जीवियट्ठी, एसोवमासायणया गुरूणं ॥६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org