________________
४३८
श्रीतिलकाचार्यविरचितटीकायुतम्
प्रव्रज्यारूपम् । मोक्षलक्षणोत्तमपदप्राप्तिहेतुत्वाद् उत्तमं प्राप्तः । तामेव श्रद्धाम् । अनुपालयेत्-प्रवर्द्धमानां कुर्यात् । क्व गुणे ? लोकोत्तरगुणरूपे । आचार्यसम्मते-. उपलक्षणत्वात् तीर्थकरादिबहुमते ।।
आचारप्रणिधिफलमाह
I
तवं चिमं संजमजोगयं च सज्झायजोगं च सया अहिट्ठए । सूरेव सेणाइ सम्मत्तमाउहे, अलमप्पणो होइ अलं परेसिं । । ६१ ।। तपश्चेदम्—अनशनादि । संयमयोगकं च - पृथिव्यादिविषयम्, संयमव्यापारं स्वार्थे कः । स्वाध्याययागं च - सूत्रार्थवाचनादिकम् । अधिष्ठातः- तपः प्रभृतीन् कर्ता, तृन् प्रत्ययस्य निष्ठादित्वात् कर्मणि न षष्ठी । इह तपोऽभिधानाद् ग्रहणेऽपि स्वाध्यायस्य प्राधान्यख्यापनार्थं पृथक्करणम् । स एवम्भूतः सूर इव -सुभट इव । चतुरङ्गया सेनया - साधुः कषायेन्द्रियसेनया निरुद्धः सन् । समस्तायुधसंपूर्णः - तपःप्रभृतिखड्गाद्यायुधः। अलमात्मनो भवति - संरक्षणाय । अलं परेषाम्उपासकानाम् ।। एतदेव स्पष्टयन्नाह
सज्झायसज्झाणरयस्स ताइणो, अपावभावस्स तवे रयस्स । विसुज्झई जंसि मलं पुरेकडं, समीरियं रूप्पमलं व जोइणा । । ६२ । । स्वाध्यायसद्ध्यानरतस्य तायिनः । अपापभावस्य तपसि रतस्य विशुद्ध्यते योऽस्य । मलः-कर्मरूपः । पुराकृतः । समीरितः - प्रेरितः । रूप्यमल इव । ज्योतिषा - अग्निना ।। ततश्च
-
से तारिसे दुक्खस जिइंदिए, सुएण जुत्ते अममे, अकिंचणे । विरायई कम्मघणंसि अवगए, कसिणब्भपुडावगमे व चंदमि त्ति बेमि ।। ६३ ।।
1
स तादृशः - अनन्तरोदितगुणः साधुः । दुःखसहः - परीषहसहः । जितेन्द्रियः श्रुतेन युक्तः । अममोsकिञ्चनः विराजते । कर्मघने - ज्ञानावरणीयादिकर्ममेघे । अपगते-सति सञ्जातकेवलालोकः । कृष्णाभ्रपुटावगमे - शरदि । इव चन्द्रमाः इति ब्रवीमि - इति पूर्ववत् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org