________________
श्रीदशवैकालिकसूत्रम्
४३७ विभूसा इंत्थिसंसग्गी, पणीयं रसभोयणं । नरस्सत्तगवेसिस्स, विसं तालउडं जहा ॥५६॥
विभूषा-नखकेशादिसंस्काररूपा । स्त्रीसंसर्गः । प्रणीतरसभोजनम्गलत्स्नेहरसाभ्यवहारः । नरस्य आत्मगवेषिणो विषं तालपुटं यथा-यथेदं विषं मृत्यवे भवति तथा साधोरात्मविमर्शनतत्परस्य विभूषादिकं धर्मशरीरमृत्यवे ।।
अंगपचंगसंठाणं, चारुल्लवियपेहियं । इत्थीणं तं न निज्झाए, कामरागविवड्डणं ॥५७।। स्पष्टः ।। विसएसु मणुनेसु, पिम्मं नाभिनिवेसए ।
अणिझं तेसु विनाय, परिणामं पुग्गलाण य ।।५८॥
विषयेषु मनोज्ञेषु प्रेम नाभिनिवेशयेत् । अमनोज्ञेषु च द्वेषमिति ज्ञेयम् । किं कृत्वा तेषु-विषयेषु । पुद्गलानां परिणामम् अनित्यं विज्ञाय । ते हि विषयपुद्गलाः मनोज्ञा अपि अमनोज्ञाः, अमनोज्ञा अपि मनोज्ञाः कालक्रमेण भवन्ति । ततो न तेषु . रागद्वेषौ कार्यावित्यर्थः ।।
एतदेव स्पष्टयन्नाहपुग्गलाण परीणाम, तेसिं नया जहा तहा । विणीयतण्हो विहरे, सीईभूएण अप्पणा ॥५९।।
तेषां शब्दादिपुद्गलानां यथा तथा-मनोज्ञामनोज्ञतया परिणामं ज्ञात्वा । विनीततृप्तः-शब्दादिषु विगताभिलाषो विहरेत् । शीतीभूतेन-क्रोधाद्यग्न्यपगमात् । प्रशान्तेन आत्मना ।।
किं चजाए सद्धाए निक्खंतो, परियायट्ठाणमुत्तमं । तमेव अणुपालिज्जा, गुणे आयरियसम्मए ।।६०।। यया श्रद्धया निःक्रान्तः-भववैराग्यपरिणामरूपया । पर्यायस्थानम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org