SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४३६ . श्रीतिलकाचार्यविरचितटीकायुतम् विविक्ता-अन्यसाधुभिर्विरहिता । शय्या-वसतिः, यदि भवेत् ततः । नारीणाम्-केवलानाम् । न लपेत् कथाम्-शङ्कादोषप्रसङ्गात् । साधुसहितायां च तासामपि कथयेत् । तथा गृहिसंस्तवम्-गृहिभिः परिचयम् । न कुर्यात्-स्नेहादिसम्भवात्। साधुभिः संस्तवं कुर्यात्-तत्संस्तवे चारित्रस्थैर्यसम्भवः ।। ___ कथञ्चिद् गृहस्थसंस्तवोऽपि भवतु । स्त्रीसंस्तवस्तु न कार्य एव । तद्गतं विधिमाह जहा कुक्कुडपोयस्स, निचं कुललओ भयं । एवं खु बंभयारिस्स, इत्थीविग्गहओ भयं ॥५३।। यथा कुर्कुटपोतस्य नित्यम् । कुललत:-मार्जारात् । भयम् । एवं खु बंभयारिस्स इत्थीविग्गहओ भयं-यथा कुर्कुटपोतस्य नित्यं कुललतो मार्जाराद् भयं । एवं खु-निश्चये, ब्रह्मचारिणः स्त्रीविग्रहात्-स्त्रीशरीराद् भयम् ।। यतश्चैवमतःचित्तभित्तिं न निज्झाए, नारिं वा सुयलंकियं । भक्खरंपिव दट्ठणं, दिद्धिं पडिसमाहरे ।।५४।। चित्रभित्तिगतामपि स्त्रियं न निध्यायेत् । नारी वा सुष्ठु अलङ्कृताउपलक्षणत्वादनलङ्कृतामपि । कथञ्चिद् दर्शनेऽपि भास्करमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत्निवर्तयेत् ।। किं बहुनाहत्थपायपलिछिन्नं, कन्ननासविगत्तियं । अवि वाससयं नारिं, बंभयारी विवजए ।।५।। परिच्छिन्नहस्तपादाम् । विकृत्तकर्णनाशाम् । अपि वर्षशतिकां नारीम् । . आस्तां तरुणी, ब्रह्मचारी विवर्जयेत् ।। अपि च Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy