________________
श्रीदशवैकालिकसूत्रम् आयारपन्नत्तिधरं, दिट्ठीवायमहिज्जगं । वइविक्खलियं नशा, न तं उवहसे मुणी ।।४९।।
आचाराङ्गम् । प्रज्ञप्ति:-भगवत्यङ्गं तयोर्धारिणम् । दृष्टिवादाध्येतारम् । कथञ्चिद् वाचि-लिङ्गवचनादिभिः । स्खलितं ज्ञात्वा । न तम् उपहसेत् मुनि:उपहासस्य ज्ञानावरणीयकर्मबन्धहेतुत्वात् । अधीतदृष्टिवादस्य च वाक्स्खलितं न सम्भवत्येव ।।
अन्यं चोपदेशमाहनक्खत्तं सुमिणं जोगं, निमित्तं मंतभेसजं । गिहिणो तं न आइक्खे, भूयाहिगरणं पयं ।।५०।।
नक्षत्रम्-यात्राद्यर्थम् अश्विन्यादि । स्वप्नम्-स्वप्नस्य शुभाशुभविचारः । योगम्-वशीकरणादि । निमित्तम्-अतीतादि । मन्त्रः-वृश्चिकमन्त्रादिः । भेषजम्-अतीसाराद्योषधम् | गृहिणः पृच्छतः तन्नाख्येयात । भूताधिकरणं पदम् । नक्षत्रादौ साधुना कथिते गृहस्थेनारम्भे क्रियमाणे भूतानाम्-एकेन्द्रियानाम्, अधिको रण इव . रणो यत्र पदे विनाशहेतुत्वात् तद्भूताधिकरणं, पदं-स्थानं, ततश्चैषां प्रश्ने साधूनां नाधिकारः कथने इति वाच्यम् । . अन्नत्थपगडं लेणं, भइन सयणासणं । उच्चारभूमिसंपन्नं, इत्थीपसुविवज्जियं ।।५१।।
अन्यार्थम्-न साध्वर्थं, प्रकृतम्-निवर्तितम् । लयनम्-उपाश्रयः । शयनासने विद्यते यत्र मत्वर्थीयेऽचि शयनासनम्-फलकपीठयुक्तमित्यर्थः । उच्चारभूमिसम्पन्नम्-उच्चारप्रश्रवणभूमियुक्तम् । स्त्रीपशुपण्डकविवर्जितम्-एकग्रहणे सजातीयग्रहणात्। भजेत्-आश्रयेत् ।।
उपाश्रये धर्मकथाविधिमाहविवित्ता य भवे सिज्जा, नारीणां न लवे कहं । गिहिसंथवं न कुजा, कुजा साहूहिं संथवं ॥५२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org