SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ४३० . श्रीतिलकाचार्यविरचितटीकायुतम् भयम्-इत्यादिकम् । देहे दुःखम् अव्यथितः-व्यथामगणयन्नधिसहेत । इदं सोढं सन् महाफलम्-मोक्षसाधकमित्यर्थः ।। अपि चअत्थंगयम्मि आइछे, पुरत्थाय अणुग्गए । आहारमइयं सव्वं, मणसावि न पत्थए ।॥२८॥ . स्पष्टः । नवरम् । आहारमइयम्-आहारात्मकम् ।। अलभ्यमाने आहारे किं वाच्यमित्याहअतिंतिणे अचवले, अप्पभासी मियासणे । भविज उयरे दंते, थोवं लद्धं न खिसए ।।२९।। . .. अतिन्तिण:-अलाभेऽपि न यत्किञ्चन भाषी । अचलः । अल्पभाषीकारणेऽपि मितभाषी । मिताशन:-अल्पभोजी भवेत् । उदरे दान्त:-दान्तोदरः, येन तेन वा आहारेण निर्वृत्तः । स्तोकं लब्ध्वा न खिसए-देयं दातारं वा न हीलयेत् ।। मदवर्जनार्थमाहन बाहिरं परिभवे, अत्ताणं न समुक्कसे । सुयलाभे न मजिजा, जचा तवसि बुद्धिए ।॥३०॥ न बाह्यम्-आत्मनोऽन्यं परिभवेत् । आत्मानं न समुत्कर्षेत् । श्रुतलाभाभ्यां न मद्येत्-श्रुतवानहं लाभवानहमिति । जात्या-जातिसम्पन्नोऽहम् । तपसि-तपोविषये तपस्यहम् । बुद्ध्या-बुद्धिमानहम् । उपलक्षणं चैतत् कुलबलरूपाणां ततश्चाष्टविधेनापि मदेन न माद्येत् ।। आभोगानाभोगसेवितार्थमाहसे जाणमजाणं वा, कटु आहम्मियं पयं । संवरे खिप्पमप्पाणं, बिइयं तं न समायरे ।।३१।। स-साधु । जाननजानन् वा । कृत्वा आधाकर्मिकं पदम्-कञ्चिद् रागद्वेषाभ्यां मूलोत्तरगुणविराधनम् । संवृणुयात्-निवर्तयेत् । क्षिप्रमात्मानम्-आलोचनादिना । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy