SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ४२८ . श्रीतिलकाचार्यविरचितटीकायुतम् चारित्रोपघातसम्भवात् । बहुम्-शोभनाशोभनम् ।। एतदेव स्पष्टयन्नाहसुयं वा जइ वा दिटुं, न लविज्जोवघाइयं । न य केण उपायेणं, गिहिजोगं समायरे ।।२१।। श्रुतं वा अन्यतः, यदि वा दृष्टं स्वयमेव न लपेत् । उपघातेन निर्वृतं औपघातिकम्-चौरोऽयमित्यादि । न च केनाप्युपायेन परोपरोधादिना स्वयं वा तदावर्जनार्थम् । गृहियोगम्-गृहिव्यापारं बालक्रीडनादिकं गृहरक्षादिकं वा साधुः समाचरेत्।। किं च- . . निट्ठाणं रसनिजूढं, भद्दगं पावगंति वा । पुट्ठो वावि अपुट्ठो वा, लाभालाभं न निहिसे ।।२२।। निष्ठानम्-सर्वगुणोपेतं प्रभूतमन्नम् । रसनिर्पूढम्-तंद्विपरीतं कदशनम् । आद्यं भद्रकं । द्वितीयं पापकं । पृष्टो वापि परेण कीदृग् लब्धमिति अपृष्टो वा स्वयमेव साधुः भद्रकादेर्लाभालाभं न निर्दिशेत् ।। । किं चन य भोयणमि गिद्धो, चरे उंच्छं अयंपिरो । अफासुयं न भुंजिजा, कीयमुद्देसियाहडं ।।२३।। न च भोजने गृद्धः विशिष्टवस्तुलाभायेश्वरादिकुलेषु चरेत् । अपि तु उञ्छन्। अज्ञातकुलेषु स्तोकस्तोकं प्राणवृत्त्यर्थं गृह्णन् । अजल्पनशील:-धर्मलाभमात्राभिधायी चरेत् । अप्रासुकम्-सचित्तं सचित्तमिश्रं वा कथञ्चिद् गृहीतमपि न भुञ्जीत । क्रीतमौदेशिकाहतं च ॥ संनिहिं च न कुब्विजा, अणुमायं पि संजए । मुहाजीवी असंबद्धे, हविज जगनिस्सिए ।॥२४॥ · सनिधिं च न कुर्वीत अणुमात्रमपि संयतः मुधाजीवी । असम्बद्धः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy