________________
श्रीदशवैकालिकसूत्रम्
४२७ विराधना। वटोडुम्बरपुष्पाणामपि प्रत्यासन्नभावे सम्भवति परितापनादोषः ।
अत्राह पर:-षड्जीवनिकायिकाध्ययने विस्तरेण, महाचारकथायां सङक्षेपेण षड्जीवनिकायरक्षासाधूनामुक्ता । किं पुनरत्र ?
उच्यते-चारित्रस्य हि रहस्यं षड्जीवनिकायरक्षा । अतोऽत्रादरख्यापनार्थं द्विस्त्रिरुक्तेऽपि न दोषः ।
तथाधुवं च पडिलेहिता, जोगसा पायकंबलं । सिजमुद्यारभूमिं च, संथारं अदुवासणं ।।१७।।
ध्रुवम्-नित्यं यथोक्तकालम् । योगसा-सति काययोगसामर्थ्य । पात्रकम्बलम् -पात्रग्रहणेऽन्यत्रोपधिकम्बलग्रहणात् शेषोपधिं च प्रत्युपेक्षेत । शय्याम्-वसतिं द्विकालं त्रिकालं वा । उच्चारभूमिं च चकारात् प्रश्रवणभूमिं कालभूमिं च । सन्ध्यायां संस्तारकम् अथवा आसनं पादप्रोच्छनं काष्ठासनं वा ।।
तथाउच्चारं पासवणं खेलं, सिंघाणजल्लियं । फासुयं पडिलेहित्ता, परिट्ठाविज्जा संजए ।।१८।। स्पष्टः । नवरम् । फासुयंति-प्रासुकं स्थण्डिलं प्रत्युपेक्ष्य ।। उपाश्रयस्थानविधिरुक्त: गोचरप्रवेशमधिकृत्याहपविसिज परागारं, पाणट्ठा भोयणस्स वा । जयं चिट्टे मियं भासे, न य रूवेसु मणं करे ।।१९।।
पूर्वार्द्धं सुगमम् । तिष्ठेत्-उचितदेशे । मितं भाषेत-आगमनकार्यादि । न च रूपेषु-दातृकान्तादिषु । मनः कुर्यात् ।। __ तथा बहिर्गतः साधुः केनचित् किञ्चित् पृष्टः, एवं ब्रूयात्- बहुं सुणेइ कन्नेहि, बहुं अच्छीहिं पिच्छई ।
न य दिलै सुयं सव्वं, भिक्खू अक्खाउमरिहइ ।।२०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org