________________
४२६ . श्रीतिलकाचार्यविरचितटीकायुतम्
उक्तः स्थूलविधिः, सूक्ष्मविधिमाहअट्ठ सुहमाणि पेहाए, जाइं जाणित्तु संजए। दयाहिगारी भूएसु, आस चिट्ठ सइज वा ।।१३।।
अष्टौ । सूक्ष्माणि प्रेक्ष्य-वक्ष्यमाणानि । यानि ज्ञात्वा संयतः । दयाधिकारी भूतेषु । आसीत तिष्ठेत् शयीत वा ।।
कश्चिदाहकयराणि अट्ठ सुहुमाणि, जाइ पुच्छिा संजए। . इमाणि ताणि मेहावी, आइक्खिज वियक्खणो ।।१४॥
कतराण्यष्टौ सूक्ष्माणि यानि पृच्छेत् संयतः । इमानि तानि । मेघावीमर्यादावर्ती । आचक्षीत विचक्षणः ।।
तथा हिसिणेहं पुष्फसुहमं च, पाणुत्तिगं तहेव य । पणगं बीय हरियं च, अंड सुहुमं च अट्ठमं ।।१५।।
स्नेहम्-स्नेहसूक्ष्मम्, अवश्यायहिममहिकाकरकहरतनुरूपम् । पुष्पसूक्ष्मम्-वटोडुम्बरपुष्पाणि तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते । प्राणसूक्ष्मम्-अनुद्धरिः कुन्थुः स हि चलनेव विभाव्यते, न स्थितः, सूक्ष्मत्वात् । उत्तिङ्गसूक्ष्मम्-कीटकानगरादि। पनकसूक्ष्मम्-पञ्चवर्णाप्युल्लि: । बीजसूक्ष्मम्-शाल्यादिबीजस्य मुखमूले यल्लोके तुषमुषमित्युच्यते । हरितसूक्ष्मम्-अभिनवोत्पन्नं पृथ्वीसमानवर्णमेव । अण्डसूक्ष्मम्-मक्षिकाकीटिकागृहोलिकाबाह्मणीकृकलासाद्यण्डम् ।।।
एवमेयाणि जाणित्ता, सव्वभावेण संजए । अप्पमत्तो जए निचं, सब्बिंदियसमाहिए ।।१६।।
एवम्-उक्तेन प्रकारेण । एतानि-सूक्ष्माणि । ज्ञात्वा । सर्वभावेन-सर्वात्मना। संयतः । अप्रमत्तः-निद्रादिप्रमादरहितः । सर्वेन्द्रियसमाधिना नित्यम् सर्वकालं मनोवाक्कायैः तद्विराधनावर्जने यतेत । सम्भवति हि प्रायेण सर्वेषामपि सूक्ष्माणां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org