________________
४२० श्रीतिलकाचार्यविरचितटीकायुतम् .
सव्वमेयं वइस्सामि, सव्वमेयंति नो वए । अणुवीई सव्वं सव्वत्थ, एवं भासिज पन्नवं ।।४४।।
केनचित् साधुना साधोः सन्देशे कथिते त्वया सर्वमिदं वाच्यमित्युक्ते सर्वमेतद् वक्ष्यामीति न वदेत्-सर्वस्य स्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात् मृषावाददोषः । स्वयमपि सन्देशता सर्वमेतत् त्वया वक्तव्यमिति न वाच्यम्-प्रागुक्त एवात्र दोषः । अतोऽनुविचिन्त्य सर्वं सर्वत्र । एवम्-यथा मृषावादो न स्यात् तथा भाषेत प्रज्ञावान्।।
किं चसुक्कीयं वा सुविक्कीयं, अकिजं किजमेव वा । इमं गिण्ह इमं मुंच, पणीयं नो वियागरे ॥४५॥
केनचित् क्रीते दर्शिते सुक्रीतमिति । विक्रीते सुविक्रीतमिति । क्रीते दर्शिते अक्रेयमिदम् । क्रेयमेवेदमिति वा । इदं गृहाण पण्यं महायं भविष्यति । इदं मुञ्च-समधैं भविष्यति । इति न व्यागृणीयात् ।।
अप्पग्घे वा महग्घे वा, कए वा विक्कएवि वा । पणियढे समुप्पन्ने, अणवजं वियागरे ॥४६॥
अल्पाचे वा । महाघे वा । क्रये वा । विक्रयेऽपि वा । पणितार्थेपण्यवस्तुनि । समुत्पन्ने-केनचित् पृष्टः सन् । अनवद्यम्-अपापं व्यागृणीयात् । यथात्र तपस्विनां नाधिकार इति ।।
किं चतहेवासंजयं धीरो, आस एहि करेहि वा । सय चिट्ठ वयाहित्ति, नेवं भासिज्ज पनवं ॥४७।।
तथैवासंयतम्-गृहस्थम् । धीरः- साधुः । आस्व इह । एहि इतोऽत्र । कुरु वा इदं कार्यं । शेष्व निद्रया । तिष्ठ क्षणम् । व्रज ग्रामम् । नैवं भाषेत प्रज्ञावान्।।
अपि च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org