________________
श्रीदशवैकालिकसूत्रम्
४१९
सुच्छिन्नमिति-सुष्ठु च्छिन्नं वनादि । सुहतमिति - सुष्ठु हतं क्षुद्रस्य वित्तम् । सुमृतमिति-सुष्ठु मृतः प्रत्यनीकः । अत्रापि सुशब्दोऽनुवर्तते । सुनिष्ठितमिति - सुष्ठु निष्ठितं वित्ताभिमानिनो वित्तम् । सुलष्टेति - सुष्ठु - सुन्दरा कन्या । इत्येव सावद्यं वर्जयेत् मुनिः- अनुमत्यादिदोषप्रसङ्गात् । निरवद्यं न वर्जयेद् यथा । सुकृतमिति सुष्ठु कृतं वैयावृत्यमनेन । सुपक्वमिति-सुष्ठु पक्वं ब्रह्मचर्यं साधोः । सुच्छिन्नमिति - सुष्ठु च्छिन्नं स्नेहबन्धनमनेन । सुहृतमिति - सुष्ठु हृतं शिष्यस्य कोपकरणमुपसर्गे । सुमृत इतिसुष्ठु मृतः पण्डितमरणेन साधुः । अत्रापि सुशब्दोऽनुवर्तते । सुनिष्ठितमिति सुष्ठु निष्ठितं कर्माप्रमत्तसंयतस्य । सुलष्टेति - सुष्ठु - सुन्दरा, साधुक्रित् ।।
उक्तानुक्तापवादविधिमाह
पयत्तपक्कत्ति व पक्वमालवे, पयत्तच्छिन्नत्ति व छिन्नमालवे । पयत्तलट्टत्ति व कम्महेउयं, पहारगाढत्ति व गाढमालवे ।। ४२ ।। प्रयत्नपक्वमेतत् । पक्वम् - सहस्रपाकादिग्लानार्थम् । प्रयत्नछिनमिति । छिन्नम् दुःकर्म तपसा । प्रयत्नलष्टेति - प्रयत्नेन पालनया लष्टा - सुन्दरा कन्या दीक्षार्हा । इत्येवमालपेत् कर्महेतुकम् - सर्वमपि सुकृतादि कर्मनिमित्तमित्यालपेत् । प्रहारगाढमिति“गाढप्रहारं नरम् । गाढमित्यालपेत् - पुनः पुनरालपेदित्यस्याख्यानं भूयोऽप्येतदालपतां न दोष इति ज्ञापनार्थम्।।
क्वचिद् व्यवहारे प्रक्रान्ते पृष्टोऽपृष्टो वा साधुर्नैवं ब्रूयात्सव्वुक्कसं परग्घं वा, अउलं नत्थि एरिसं । अवक्कियमवत्तव्यं, अचियत्तं चैव नो वए ||४३ ॥
एतन्मध्ये इदं सर्वोत्कृष्टं परार्धं वा प्रकृष्टार्घं महार्घम् । इदम् अतुलं . मास्तीदृशमन्यत्र । अवक्कियं - असंस्कृतं सुलभमीदृशमन्यत्रापि । अवक्तव्यम् - अनन्तगुणमप्यस्त्येतत् । अप्रीतिकरमेतदिति नो वदेत्-अधिकरणादिदोषप्रसङ्गात्।।
किं च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org