SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ४१८ श्रीतिलकाचार्यविरचितटीकायुतम् संखडिं संखडिं बूया, पणियढि त्ति तेणगं । बहुसमाणि तित्थाणि, आवगाणं वियागरे ।।३७।। सङ्खण्डिकां सङ्खण्डिकैवैषेति ब्रूयात् । प्रकर्षण नीतोऽर्थोऽनेनेति प्रणीतार्थोऽयमिति स्तेनकं वदेत् । बहुसमानि तीर्थानि । आपगानाम्-नदीनाम्। व्यागृह्णीयात् ।। · तहा नईओ पुनाओ, कायतिजत्ति नो वए । नावाहिं तारिमाउत्ति, पाणिपिज्जत्ति नो वए ।।३८।। तथा नद्यः पूर्णाः कायतरणीया इति नो वदेत् । नौभिस्तरणीया इति, तटस्थैः पाणिपेया इति च न वदेत्-साधुवचनतः प्रवृत्त्यादिदोषात् । साधुमार्गकथनादौ चैवं भाषेतेत्याह- | बहुवाहडा अगाहा, बहुसलिलुप्पिलोदगा । बहुवित्थडोदगा यावि, एवं भासिज पन्नवं ।।३९।। बहुभृताः । अगाधा:-गम्भीराः । बहुनां सलिलानां उत्पीलं उदकं यासां ताःबहुसलिलोत्पीलोदका:-प्रतिश्रोतोवाहितापरसरितः । बहुविस्तीर्णोदका:स्वतीरप्लावितप्रसृतजलाः । एवं भाषेत प्रज्ञावान् ।। तहेव सावजं जोगं, परस्सट्ठाइ निट्ठियं । कीरमाणंति वा नचा, सावजं न लवे मुणी ।।४०।। तथैव सावधं योगम्-व्यापारम् । परस्यार्थाय-परस्य निमित्तम् । निष्ठितम्-नि:पन्नम् । क्रियमाणं वा-वाशब्दाभाविनं वा । ज्ञात्वा सावधं न वदेत्-केनापि पृष्टो न कथयेत् मुनिः ।। अथैकेनैव श्लोकेन सावद्यवर्जनानवद्यावर्जनं चाहसुकडित्ति सुपक्वित्ति, सुच्छिन्ने सुहडे मडे । सुनिट्ठिए सुलट्ठित्ति, सावजं वजए मुणी ।।४१।। सुकृतमिति-सुष्ठ कृतं सभादि । सुपक्वमिति-सुष्टु पक्वं सहस्रपाकादि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy