SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् असंथंडा इमे अंबा, बहुनिवट्टिमाफला । वइज्ज बहुसंभूया, भूयरूवत्ति वा पुणो ।। ३३ ।। असंस्तृता:- फलभारं संस्तरीतुं निवोढुं न समर्थाः । इमे आम्रा:- : - एतेन पक्वार्थ उक्तः । बहुनिवृत्तफलाः - बहु यावन्निर्वृत्तानि - बद्धास्थीनि फलानि येषु ते, तथा - अनेन पाकखाद्यार्थ उक्तः । वदेत् । बहसम्भूतानि - पाकातिशयाद् ग्रहणकालोचितानि फलानि येषु ते, तथा-एतेन वेलोचितार्थ उक्तः । भूतरूप इति वा पुनः - भूतरूपाणिअबद्धास्थीनि-कोमलानि फलानि येषु ते, तथा - अनेन टालाद्यर्थ उक्तः ।। तहेवोसहिओ पक्काओ, नीलियाओ छवीइ य । लाइमा भज्जिमाउत्ति, पिहुखज्ज त्ति नो वए || ३४ ॥ तथैवौषधयः - शाल्याद्याः । पक्वः । निलिकाश्छवयः-वल्लचपलकादयः। फलिकाः । लवनयोग्याः । भर्जनयोग्याः । पृथुकखाद्या इति नो वदेत् । दोषः संयमविराधना ।। कार्ये तु मार्गदेशनादौ एवमापतेद्, इत्याह रूढा बहुसंभूया, थिरा उसढाइ य । गब्भियाओ पसुयाओ, संसाराउ ति आलवे ।। ३५ ।। रूढाः-प्रादुर्भूताः । बहुसम्भूताः - निःपन्नप्रायाः । स्थिराः - उत्खायान्यत्र रोपितत्वादचाल्याः । उत्सृताः - प्रवृद्धाः । गर्भिताः - अनिर्गतशीर्षाः । प्रसूताः - निर्गतशीर्षाः । संसाराः – सञ्जाततन्दुलाः । इत्यालपेत् ।। तहेव संखडि नचा, किचं कज्जयंति नो वए । तेगं वा वि वज्झित्ति, सुत्तित्थित्ति य आवगा ।। ३६ ।। तथैव । सङ्घण्ड्यन्ते प्राणिनो यस्यां सा सङ्घण्डिका । पित्रादिनिमित्तं सांवत्सरिकादिका कृत्या कार्येवैषेति यतिर्न वदेत् - मिथ्यात्वोपबृंहणात् । स्तेनकं वापि वध्योऽयमिति नो वदेत् -- प्राणातिपातदोषात् । सुतीर्थेति चापगा - चकाराद् दुस्तीर्थेति न वदेत्, अधिकरणदोषात् ।। Jain Education International ४१७ For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy