SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४१६ .. श्रीतिलकाचार्यविरचितटीकायुतम् आसणं सयणं जाणं, हुज्जा वा किंचुवस्सए । भूओवघाइणिं भासं, नेवं भासिज पन्नवं ।।२९।। आसनम्-आसन्दिकादि । शयनम्-पर्यङ्कः । यानम्-वाहनम् । भवेत् किञ्चिदुपाश्रये-द्वारपत्रादिः । एतैर्वृक्षरित्येतां भूतोपघातिनीम्-सत्त्वपीडाकरीम् । भाषां नैवं भाषेत । प्रज्ञावान-साधुः । दोषश्चात्र तद्वनस्वामी व्यन्तरादिः कुप्येत् । संयमात्मविराधनैव ।। अत्रैव विधिमाहतहेव गंतुमुजाणं, पव्वयाणि वणाणि य । रुक्खा महल्ल पेहाए, एवं भासिज पनवं ॥३०॥ . विश्रमणाय मार्गप्रश्नकथनादौ, कार्ये महावृक्षप्रेक्षणे चैवं वदेत्जाइमंता इमे रुक्खा, दीहवट्टा महालया । पयायसाला विडिमा, वए दरिसणित्ति य ।।३१।। जातिमन्तः-उत्तमजातयः । इमे-अशोकदयो वृक्षा । दीर्घवृत्ता महालया:दीर्घा-नालिकेर्यादयः, वृक्षाः-सहकाराद्याः, महालया:-वटाद्याः । प्रजातशाला:निःपन्नशाखाः । विटपिनः । वदेद् दर्शनीया इति ।। तहा फलाणि पक्खाणि, पायखजाणि नो वए । वेलोइमाइं टालाई, वहिमाई त्ति नो वए ।।३२॥ तथा । फलानि-आम्रफलादीनि । पक्वानि । पाकखाद्यानि-पाकेन खाद्यानि। गर्ताप्रक्षेपकोद्रवपलालादिना विपाच्य भक्षणयोग्यानि इति नो वदेत् । वेलोचितानि-ग्रहणकालप्राप्तानि । टालानि-टालनीयानि, अबद्धास्थीनि अद्यापि कोमलानि । द्वैधिकानि- द्वेधीभावकरणयोग्यानि । नो वदेत् । गृहिणां साधुवचनात् तद्ग्रहणादौ साधोः संयमविराधना ।। मार्गदर्शनादौ च कार्य एवं वदेत् १. प्रशाखावन्तः १० टि० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy