________________
४१५
श्रीदशवैकालिकसूत्रम् गोभिराकृष्यो रथः गोरथः शकटं, तत्र योज्यन्त इति क्रीतादित्वादिकणि गोरथिकाः कल्होडाः । वाह्या रथयोग्या इति नैव भाषेत प्रज्ञावान् । अधिकरणदोषप्राप्तेः ।।
कार्ये तु दिगुपलक्षणादौ एवं ब्रूयात्जुवं गवित्ति णं बूया, घेणुं रसदइति य । हस्से महल्लए आवि, वए संवहणित्ति य ।।२५।।
दम्यं गां युवेति ब्रूयात् । धेनुं रसदेति । गोरथिकं हस्वम् । बाह्यं महल्लक वदेत् । रथयोग्यं संवहन:-धुर्योऽयमिति ।।
अपि चतहेव गंतुमुजाणं, पव्वयाणि वणाणि य । रुक्खा महल्ल पेहाए, नेवं भासिज पन्नवं ।।२६।।
तथैव गत्वोद्यानं पर्वतान् वनानि च । वृक्षान् महतः प्रेक्ष्य नैवं वक्ष्यमाणं भाषेत प्रज्ञावान् ।।
अलं पासायखंभाणं, तोरणाण गिहाण य । फलिहग्गलमावाणं, अलं उदगदोणिणां ॥२७॥ • अलम्-पर्याप्ताः, समर्था, योग्याः । प्रासादानां, स्तम्भानाम् । तोरणानाम् -नगरसत्कानाम् । गृहाणाम्-सामान्यवेश्मनाम् । तथा परिघार्गलानावाम् । तथा अलं उदकद्रोणीनाम्-उदकद्रोण्यः-अरघट्टजलधारिकाः ।।
तथा- .
पीढए चंगबेरे य, नंगले मइयं सिया ।
जंतलट्ठी व नाभी वा, गंडिया व अलंसिया ॥२८॥ . इह चतुर्थ्यर्थे प्रथमा । पीठकाय-काष्ठासनाय । चङ्गबेरम्-काष्ठपात्री तस्यै। लागलायमयिकम्-उप्तबीजाच्छादनं तस्मै । यन्त्रयष्ट्यै वा । नाभि:-शकटचक्रतुम्बं तस्मै । गण्डिका-सुवर्णकाराणाम् अधिकरणी तस्यै । अलम्-योग्याः । स्युरेते वृक्षाः।।
तथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org