SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४१४ . श्रीतिलकाचार्यविरचितटीकायुतम् पंचेंदियाण पाणाणं, एस इत्थि अयं पुमं । जाव णं न विजाणिजा, ताव जाइत्ति आलवे ।।२१।। स्पष्टः । नवरम् । जाइत्ति आलवे-जात्या आलपेत् । एषः- प्रश्नादिकार्ये । दूरे गां दृष्ट्वा, इतो गोरूपाद् वामेन दक्षिणेन वा मार्ग ? इत्यादिकं गोपालादि पृछ्यते । अन्यथा लिङ्गव्यत्ययेनौक्तौ मृषावाददोषः स्यात् ।। आह पर:-एकेन्द्रियाणां नारकाणां च नपुंसकत्वे सत्यपि मृत्तिका, पाषाण, आपो, घनरसः, ज्वलनः, पवनः, तरुलता, शङ्खः, शुक्तिका, कीटिका, मत्कोटकः, भृङ्गी, भृङ्गः नारक इत्यादीनां लिङ्गव्यत्ययेनोच्यमानत्वान्न मृषावादः ? ___ गुरुराह-व्यवहारसत्येन सत्यमेवैतत् । यथा दह्यते गिरिः । गलति भाजनम् । अनुदरा कन्या । ततो नात्र मृषादोषः ।। तहेव मणुसं पस्सु, पखि वावि सरीसिवं । थूले पमेइले वझे, पायमित्त य नो वए ।।२२।। तथैव मनुष्यं पशु पक्षिणं । सरीसृपम्-अजगरादिकम् । स्थूल:-अत्यन्तमांसलो मनुष्यादिः । तथा प्रमेदूरः-मेदस्वी । वध्यः-व्यापाद्यः । पाक्यः-पाकप्रायोग्यः, कोलप्राप्तः। इति वा-इत्यादि । नो वदेत् । अप्रीत्यादिदोषप्रसङ्गात् ।। कारणे त्वेवं ब्रूयात्परिवूढत्ति णं बूया, बूया उवचियत्ति य । संजाए पीणिए वावि, महाकाइत्ति आलवे ।।२३।। परिवृद्धः-परिसमन्ताद् वृद्धः, वृद्धिं गतः । अयं स्थूलमनुष्यादिरिति । ब्रूयादुपचितमिति च । सञ्जातः । प्रीणित:-सस्निग्धः । महाकाय इति चालपेत्।। किं चतहेव गाओ दुज्झाओ, दम्मा गोरहगत्ति य । वाहिमा रहजोगत्ति, नेवं भासिज पनवं ॥२४॥ · तथैव । गावो दोह्या:-दोहामु । दम्याः पग्नयोग्याः । गोरथिकाः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy