________________
श्रीदशवैकालिकसूत्रम्
४१३
नानादेशापेक्षया गौरवकुत्सागर्भाणि स्त्र्यामन्त्रणानि । ततः स्त्रियं नैतेरालपेत् ।
एवमालापनेऽनुरागाप्रीतिकप्रवचनलाघवादिदोषाः ।।
कथं तर्ह्यालपेदित्याह—
नामधिज्जेण णं बूया, इत्थिगुत्तेण वा पुणो । जहारिहमभिगिज्ज, आलविज्ज लविज्ज वा ।।१७।।
नामधेयेन - प्रशस्तेन नाम्नैव । स्त्रीगोत्रेण वा - हे काश्यपगोत्रे इत्यादि । यथार्हम्-यथायोग्यं, वयोदेशैश्चर्याद्यपेक्षपया । गुणदोषानालोच्य बालां युवतिं वृद्धां च बाले !, भद्रे !, धर्मशीले ! इत्येवं आ - ईषलपेत् । बहुतरं वा कार्यवशात् लपेत् ।। उक्तः स्त्रीं प्रत्यालापनिषेधो विधिश्च साम्प्रतं पुरुषमाश्रित्याह
अज्जए पज्जए वावि, बप्पो चुल्लपिउत्ति य ।
माउला भायणि त्ति, पुत्ते नत्तुणियत्ति य ।। १८ ।।
आर्यक : - पितामहो मातामहश्च । प्रार्यकः - प्रपितामहः प्रमातामहश्च । बप्पः
वप्ता । चुल्लपिउत्ति-पितृव्यः । मातुलः, भागिनेय, पुत्रः । नप्तेति च - पौत्रः ।।
किं च
हे हो हलित्ति अनित्ति, भट्टे सामिय गोमिय ।
हाले गोले वसुलित्ति, पुरिसं नेवमालवे ।। १९ ।।
हे भो !, हला !, अन्य !, भर्त्तः !, स्वामिन् !, गोमिन् !, होल !, गोल!, वसुल ! इति पुरुषं नैवमालपेत् । अत्र भावार्थः पूर्ववत् ।।
कथं तर्ह्यालपेत्
नामधिज्ज्रेण णं बूया, पुरिसं गुत्तेण वा पुणो । जहारिहमभिगिज्ज, आलविज्ज लविज्ज वा ।।२०।।
अर्थः प्राग्वत् ।
उक्तः पुरुषालापनिषेधविधी, अधुना पञ्चेन्द्रियतिर्यग्गतं वाग्विधिमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org