________________
श्रीदशवैकालिकसूत्रम्
बहवे इमे असाहू, लोएवुचंति साहूणो ।
न लवे असाहु साहु त्ति, साहू साहु त्ति आलवे ।।४८ ।।
बहव: इमे - आजीवकादयोऽसाधवः । लोके - लोकमध्ये । उच्यन्ते साधवः । अतो नालपेदसाधुं साधुमिति - मृषावादप्रसङ्गात् । साधुं साधुमित्यालपेत् ।। किं विशिष्टं साधुं साधुमित्यालपेदित्याहनाणदंसणसंपन्नं, संजमे य तवे रयं ।
एवं गुणसमाउत्तं, संजयं साहूमलवे ।। ४९ ।।
स्पष्टः ।।
तथा
देवाणं मणुयाणं च, तिरियाणं च वग्गहे । अमुयाणं जओ होउ, मा वा होउ त्ति नो वए । ५० ।।
देवानाम्-देवासुराणाम् । मनुजानाम् - राजादीनाम् तिरश्चाम् - महिषादीनाम् ।
व्युद्ग्रहे । अमुकानां जयो भवतु । मा वा भवत्विति नो वेदत् - तत्पक्षपाति -
द्वेषप्रसङ्गात् ।।
४२१
. किं च
वाउ वुटुं च सीउण्हं, खेमं धायं सिवंति वा ।
कया णु हुज्ज एयाणि, मा वा होउत्ति नो वए ।। ५१ । । वायुर्वातः-मलयमारुतादिः । वृष्टम् - वर्षणम् । शीतम् उष्णम् । क्षेमम्राजादिविड्वरशून्यम् । ध्रातम्— सुभिक्षम् । शिवमिति वा । कदा नु भवेयुरेतानि मा वा भवेयुरिति धर्माद्यभिभृतो न वदेत् उभयथापि केषाञ्चित् सत्त्वानां पीडासम्भवात्।। तहेव मेहं व नहं व माणवं, न देवदेवत्ति गिरं वइज्जा । समुच्छिए उन्नइए वा पओए, वइज्ज वा वुटुं बलाहग त्ति ।। ५२ ।। तथैव मेघं वा, नभो वा, मानवं वा प्रति देवदेव इति गिरं नो वदेत्मृषावादप्रसङ्गात् । कथं तर्हि वदेत् ? उन्नतं मेघं दृष्ट्वा सम्मूर्च्छित उन्नतो वा पयोदः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org