________________
श्रीदशवकालिकसूत्रम्
४११ इयं स्त्री आगच्छतीत्यादि । तदपि वितथम् । तस्मादपि भाषणात् । स्पृष्टः-बद्धः । स मृषाभाषणकर्मणा । किं पुनर्यः सर्वथा मृषा वक्ति । स सुतरां बध्यत एव ।।
तम्हा गच्छामो वक्खामो, अमुगं वा णे भविस्सइ । अहं वा णं करिस्सामि, एसो वा णं करिस्सइ ।।६।।
यस्मादेवं तस्माद् गमिष्याम एव प्रातरितोऽन्यत्र । वक्ष्याम एव तत्तद्दोषनिमित्तम्। अमुकं वा नः कार्यं वसत्यादिकं भविष्यत्येव । अहं वेदं लोचादि करिष्यामि नियमेन । एष वा साधुरस्माकं विश्रामणादि करिष्यत्येवेति ।।
एवमाइ उ जा भासा, एसकालम्मि संकिया । संपयाईयमढे वा, तंपि धीरो विवजए ॥७॥
एवमादि-कापि या भाषा, एष्यत्काले शङ्किता । साम्प्रतातीतेऽपि वाकाले । तामपि धीरो विवर्जयेत् । निश्चितं न वदेत् । निश्चितोक्तस्यान्यथाभावेन व्यभिचारात् मृषावादापत्तिरिति ।।
किं चअईयम्मि य कालम्मि, पशुपनमणागए । जमटुं तु न जाणिजा, एवमेयंति नो वए ।।८।। स्पष्टः । अयमज्ञातभाषणप्रतिषेधः ।। किं चअईयम्मि य कालम्मि, पशुपनमणागए । जत्थ संका भवे जंतु, एवमेयं ति नो वए ।।९।। स्पष्टः ।।.. अईयम्मि य कालम्मि, पचपन्नमणागए । निसंकियं भवे जंतु, एवमेयं ति आलवे ।।१०।। स्पष्टः ।। तहेव फरुसा भासा, गुरुभूओवघाइणी । सचा वि सा न वत्तव्वा, जओ पावस्स आगमो ।।११।।
यथा अज्ञातं शङ्कितं वा एवमेतदिति न वाच्यम् । तथैव-कस्यचित् - दोष० १.२, ०दोषध० ३.४, ०दौषध० ५ ।। ॐ नालवे १-३.५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org