________________
४१०
श्रीतिलकाचार्यविरचितटीकायुतम्
जा य सङ्ख्या अवत्तव्वा, सामोसा य जा मुसा । जाय बुद्धेहिं नाइना, न तं भासिज्ज पन्नवं । । २ । ।
या च सत्या अवक्तव्या-इत्थं गतो मृग इति व्याधेन पृष्टे, तस्याग्रे गतो मृग इति, सत्यमपि न वाच्यं, सावद्यत्वात् । सत्यामृषा च अत्र नगरे दश दारका जाता इत्यादिका। या मृषा-सर्वथाप्यसत्या । या च बुद्धैरनाचीर्णा - असत्यामृषा आमन्त्रिणी हे हो हले त्यादिका । राज्ञो राजानं प्रत्याज्ञापनी यथास्मै द्विजाय स्वदेशे मदादेशादेको महीयान् ग्रामो देय इत्यादिका कर्कशा न तां भाषेत प्रज्ञावान् ।।
उक्ता अवाच्या, वाच्यामाह
असमोस सयं च अणवज्जमकक्कसं ।
समुप्पेहमसंदिद्धं, गिरं भासिज्ज पत्रवं || ३ ||
असत्यामृषां, सत्यां, च अनवद्याम्, अकर्कशाम । समुत्प्रेक्ष्य- विचार्य स्वपरोपकारिणी । असन्दिग्धाम्- स्फुटाम् । गिरं भाषेत् प्रज्ञावान् ।।
1
सत्यामृषां पुनर्विशेषेण प्रतिषेधयति
एयं च अट्ठमन्नं वा, जं तु नामेइ सासयं ।
सभासं सामोसंपि, तंपि धीरो विवज्जए ॥४॥
I
एतं चार्थम्-अनन्तरप्रतिषिद्धं सावद्यं कर्कशम्-अन्यं वा एवंजातीयम् । एतन्मध्याद् यः कश्चिदर्थी नामयति-अननुगुणं करोति । शाश्वतम् - मोक्षम् । तम् अर्थं स्वीकृत्य स-साधुः । पूर्वोक्तभाषा भाषकत्वेनाधिकृतः । भाषां सत्यामृषामपि-अपिशब्दाद् या सत्या तामपि धीरो विवर्जयेत् ।
आह परः-ओघतः सत्यामृषा, सावद्यरूपा सत्या च, प्रागेव निषिद्धा किं पुनरिदम् ? मोक्षपीडाकरम् अर्थमङ्गीकृत्य कापि भाषा न भाषणीयेति प्रदर्शनार्थमिति । तथा ओघतोऽग्रेऽपि मृषा प्रतिषिद्धा, विशेषतः पुनराह -
वितर्हपि तहामुत्ति, जं गिरं भासई नरो ।
तम्हा सो पुट्ठो पावेणं, किं पुण जो मुसं वए ? ॥ ५ ॥
तथा मूत्र्त्त्यापि स्वीकृतपुरुषवेषमपि स्त्र्यादिकम् आश्रित्य यां गिरं भाषते नरः ।
१. प्रतिकूल १० ट० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org