________________
श्रीदशवैकालिकसूत्रम्
साम्प्रतमुक्तफलदर्शनेनोपसंहारमाह
खवंति अप्पाणममोहदंसणो, तवेरया संजमअज्जवेगुणा । धुणंति पावाइं पुरेकडाई, नवाइं पावाइं न ते करंति ।। ६७ ।। क्षपयन्ति- शोधयन्ति । आत्मानं - जीवं पूर्वोक्तविधिविधानेन, अमोहं पश्यन्तीत्येवं शीला: अमोहदर्शिनः - यथावत्स्थितार्थदर्शिनः साधवः । तपसि रताः । किं विशिष्टे संयमार्जवी गुणौ यस्य तस्मिन् संयमार्जवगुणे-विचालैकारोऽलाक्षणिकः । उत्तरार्धं स्पष्टम् ।।
सओवसंता अममा अकिंचणा, सविज्जविज्जा अणुगयाजसंसिणो । उउप्पसत्रे विमलेन्द्र चंदमा, सिद्धिं विमाणाई उविंति ताइणो त्ति बेमि । । ६८ ।। सदोपशान्ताः । अममाः । अकिञ्चनाः- स्वर्णमिथ्यात्वादिद्रव्यरहिताः । स्वविद्या-सिद्धान्तरूपा, तस्याविद्या वेदनं स्वविद्याविद्या । तयानुगता यशस्विनः ऋतौ प्रसन्ने-शरदादौ । विमल इव चन्द्रमाः - निकर्मत्वेन विमलात्मानः । सिद्धिम् - सावशेषकर्माणः विमानानि - सौधर्मादीनि । उपयन्ति । तायिनः साधवः । इति ब्रवीमि - -इति प्राग्वत् ।।
।। समाप्ता महाचारकथाध्ययनटीका ।।
।। सप्तमं वाक्यशुद्धयध्ययनम् ।।
अनन्तराध्ययने वसत्यागतस्य स्वाचारः सविस्तरः कथयितव्य इत्युक्तम्, तच्च वचनदोषगुणाभिज्ञेन निरवद्य वचसा वाच्यमित्यनेन सम्बन्धेनायातं वाक्यशुद्धयध्ययनं व्याख्यायते । तस्येदमादिसूत्रम्
४०९
चउन्हं खलु भासाणं, परिसंखाय पन्नवं ।
दुहं तु विणयं सिक्खे, दो न भासिज्ज सव्वसो || १ ॥ खशब्दोऽवधारणे । चतसृणामेव भाषाणाम् नातोऽन्या भाषा विद्यते । परिसङ्ख्याय सर्वैः प्रकारैर्ज्ञात्वा । प्रज्ञावान् । द्वयोः- भाषयोः । विनयम् - विनीयतेऽनेन कर्मेति विनयः । तं विनयं प्रयोगं शिक्षेत । द्वे च भाषे न भाषेत सर्वशः - सर्वथा ।।
विनयमाह
१. स्वविद्या चासौ विद्या च तया १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org