________________
Xo
श्रीतिलकाचार्यविरचितटीकायुतम् प्रासुकेनापि उत्प्लावयेत् । ततः संयमविराधना ।।
तम्हा ते न सिणायंति, सीएण उसिणेण वा । जावजीवं वयं घोरं, असिणाणमहिटगा ।।६।।
तस्मात् । ते-साधवः । न स्नान्ति । शीतोदकेन उष्णोदकेन वा । यावज्जीवं व्रतं घोरम्-दुरनुचरम् । अस्नानम् । अधिष्ठातार:-अस्यैव व्रतस्य कर्तारः ।।
सिणाणं अदुवा कक्वं, लुद्धं पउमगाणि य । .. गायस्सुबट्टणट्ठाए, नायरंति कयाइवि ।।६३॥
स्नानम् अथवा । कल्कम्-चन्दनकल्कादि । रोध्रम्-गन्धद्रव्यम् । पद्मकानिकुङ्कुमकेशराणि । अन्यदप्येवंविधंध गात्रस्योद्वर्तनाथ नाचरन्ति कदाचिदपि साधवः ।।
उक्त: सप्तदश स्थानविधिः, अष्टादशमाहनिगिणस्स वावि मुंडस्स, दीहरोमनहंसिणो । मेहुणा उवसंतस्स, किं विभूसाइ कारियं ॥६४।।
नग्नाः सर्वथा जिनकल्पी, उपचारात् प्रमाणोपेतवस्त्रधार्यपि नग्नः । तस्य मुण्डस्य-कृतलोचस्य । दीर्धरोमनखांशिनः-रोमाणि-कक्षादेः, नखांशाःपाणिपादनखावयवाः । मैथुनादुपशान्तास्य-निवृत्तस्य । किं विभूषया कार्यम् ? ।।
विभूषाया अपायमाहविभूसावत्तियं भिक्खू, कर्म बंधइ चिक्कणं । संसारसागरे घोरे, जेणं पडइ दुरुत्तरे ।।६५।। विभूषाप्रत्ययम्-विभूषानिमित्तम् । शेषं स्पष्टम् । मनः सङ्कल्पितविभूषापायमाहविभूसावत्तियं चेयं, बुद्धा मन्त्रंति तारिसं । सावजबहुलं चेयं, नेयं ताईहि सेवियं ।।६।।
विभूषानिमित्तं चेतः । बुद्धाः-जिनाः । मन्यन्ते । तादृशम्-कर्मबन्धहेतुभूतम्। सावद्यबहुलं चैतत्-आर्त्तध्यानकारि । नेदं साधुभिः तायिभिः । सेवितम्-कृतमित्यर्थः।। उक्तः शोभावर्जनास्थानविधिः । तदभिधानादष्टादशं पदं, तदभिधानाञ्चोत्तरगुणाः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org