SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४०६ . श्रीतिलकाचार्यविरचितटीकायुतम् अपवादमाहनासंदीपलियंकेसु, निसिज्जा न पीठए । निग्गंथापडिलेहाए, बुद्धवुत्तमहिट्ठगा ।।५४॥ नासन्दीपर्यङ्कयोः । न निषद्यायाम्-गब्दिकाचक्कलकादिकायाम् । न पीठकेवेत्रमयादौ । निर्ग्रन्था अप्रतिलेख्य नोपवेशनादि कुर्वन्तीति शेषः । कथम्भूतास्ते ? बुद्धोक्ताधिष्ठातार:-जिनोक्तानुष्ठानपराः । यतः आसन्धादीनां प्रत्युपेक्षा न शुध्यति । आसन्धादिषु अप्रत्युपेक्ष्य साधव उपवेशनं न कुर्वन्ति । अत्र द्वौ नौ प्रकृत्यर्थ गमयतः। ततश्च एतेषु प्रत्युपेक्ष्यदृष्ट्वा राजकुलादिषु उपविशन्ति ।। एतदेवाहगंभीरविजया एए, पाणा दुष्पडिलेहगा । आसंदी पलियंका य, एयमटुं विवजिया ।।५५।। यो विशिष्टजयो भवति, तं लोका आश्रयन्ते । ततो लक्षणया विजयशब्देन आश्रयोऽभिधीयते । ततश्च गम्भीरविजया:-अप्रकाशाश्रयाः । एते आसन्दादयः । एषु प्राणा दुःप्रत्युपेक्षाः ॥ उक्तं पञ्चदशं, षोडशमाहगोयरग्गपविट्ठरस, निसिज्जा जस्स कप्पई । इमेरिसमणायारं, आवजइ अबोहियं ।।५६।। गोचराग्रप्रविष्टः-इह षष्ठी प्रथमार्थे, गृहे । निषद्याम्-निषदनं यः साधुः । कल्पते- अनेकार्थत्वात् करोति । स ईदृशम्-वक्ष्यमाणम् । अनाचारं अबोधिकम्मिथ्यात्वफलम् । आपद्यते ।। अनाचारमाहविवत्ती बंभचेरस्स, पाणाणं च वहे वहो । वणीमगपडिग्घाओ, पडिकोहो अगारिणं ।।५७।। विपत्तिर्ब्रह्मचर्यस्य-चिरदर्शनेन मिथोऽनुरागसम्भवात्, तत्र स्त्रियः चिरसंसर्गात्। स्त्रिया आधाक्रमादिकरणात् प्राणानां च वधे वधः स्यात्-आद्यव्रतविघातः स्यात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy