SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४०४ - श्रीतिलकाचार्यविरचितटीकायुतम् . तम्हा एयं वियाणित्ता, दोसं दुग्गइवड्डणं । तसकायसमारंभं, जावजीवाइ वजए ।।४५।। सूत्रत्रयं प्राग्वत् । त्रसकायं न हिंसन्ति-आरम्मप्रवृत्त्येति ज्ञेयम् ।। . उक्तो द्वादशस्थानविधिः, प्रतिपादितं कायषट्कम् । एतत्प्रतिपादनादुक्ता मूलगुणाः । अधुनैतवृत्तिभूतोत्तरगुणावसरः । ते चाकल्पादयः षट् । तत्रालल्पो द्विविधः । शिक्षकस्थापनाकल्पः, अकल्पस्थापनाकल्पश्च । तत्राद्यः । अनधीतपिण्डनियुक्त्यादिना शैक्षेण आनीतमाहारादि साधूनां न कल्पते । उक्तं च- . अणहीया खलु जेणं, पिंडेसणसिज्जपाएसा । तेणाणियाणि ज़इणो, कप्पंति न पिंडमाईणि ।।१।। उउबद्धंमि न अनला, नपुंसका वासावासासु दोवि नो सेहा । दिक्खिज्जंति सहेट्ठवणाकप्पो इमो होइ ।।२।। [ ] अकल्पस्थापनाकल्पं त्वाहजाइं चत्तारि भुजाई, इसिणाहारमाइणि । ताई तु विवजितो, संजमं अणुपालए ॥४६।। यानि चत्वार्यभोज्यानि-उद्गमादिदोषैरकल्पनीयानि । ऋषीणाम्-साधूनाम्। आहारादीनि-आहारशय्यावस्त्रपात्राणि । तु विवर्जयेत्-अगृह्णन् । संयममनुपालयेत्।। एतदेव स्पष्टयतिपिंडं सिजं च वत्थं च, चउत्थं पायमेवय । अकप्पियं न इच्छिज्जा, पड्रिगाहिज कप्पियं ।।४७।। स्पष्टः । अकल्पिके दोषमाहजे नियागं ममायंति, कीयमुद्देसियाहडं । वहं ते समणुजाणंति, इई वुत्तं महेसिणा ।।४।। ये-केचिद् द्रव्यसाध्वादयः । नियागंति-नित्यमामन्त्रितं पिण्डम् । ममायन्ति-गृह्णन्ति । क्रीतमौदेशिकाहृतं च-एतानि क्षुल्लकाचारकथोक्तवत् । वधम्-त्रसस्थावरादिघातम् । ते समनुजानन्ति-दायकप्रवृत्त्यनुमोदनेन । इत्युक्तं महर्षिणा-श्रीवीरस्वामिना ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy