________________
४०२ . श्रीतिलकाचार्यविरचितटीकायुतम् ..
जाततेजसं पावकम्-अग्निम् । ज्वालयिम्-उत्पादयितुं, वृद्धिं नेतुम् । न इच्छन्ति । तीक्ष्णम् अन्यतरद्-एकं पृथ्व्यादीन् प्रति । शस्त्रं सर्वतोऽपि-समन्तादपि। ज्वालारूपत्वाद् दुराश्रयम्-अनाश्रयणीयमित्यर्थः ।। .
एतदेव स्पष्टयन्नाहपाईणं पडिणं वावि, उड्डे अणुदिसामवि । अहे दाहिणओ वावि, दहे उत्तरओ वि य ।।३३।।
प्राचीनं प्रतीचीनं वापि-पूर्वपश्चिमयोर्यदस्ति । ऊर्ध्वम्-ऊर्ध्वदिशि । अनुदिक्षुसप्तम्यर्थे षष्ठी, विदिश्वपीत्यर्थः । अधो दक्षिणतश्चापि दहति दाह्यम् । उत्तरतोऽपि चसर्वासु दिक्षु विदिक्षु वा आसन्नं दाह्यं दहतीत्यर्थः ।।
यतश्चैवमत:भूयाण एसमाधाओ, हव्ववाहो न संसओ । तं पईवयावट्ठा, संजया किंचि नारभे ॥३४॥
भूतानाम्-स्थावरादीनाम् एषः । आघातहेतुत्वाद् आघातः । हव्यवाहःअग्निः। न संशयः । तं प्रदीपार्थम्-दीपनिमित्तम् । प्रतापार्थम्-प्रकर्षेण तापनार्थं शीतापनयनार्थम् । संयताः किञ्चिन्नारभन्ते ।।
तम्हा एवं वियाणित्ता, दोसं दुग्गइवड्डणं । तेउकायसमारंभ, जावजीवाइ वजए ।।३५।। प्राग्वत् ।। उक्तो नवमस्थानविधिः, दशममाहअनिलस्स समारंभं, बुद्धा मन्नति तारिसं । सावजबहुलं चेयं, नेयं ताईहि सेवियं ।।६।।
अनिलस्य-वायोः । समारम्भम्-तालवृन्तादिभिः करणम् । बुद्धाः-जिनाः । मन्यन्तो । तादृशम्-वढ्यारम्भसमम् । सावजबहुलं चैतमिति । नैनं तायिभिः । सेवितम्-आचरितम् । इत्यपि बुद्धा मन्यन्ते, इत्यत्रैव सम्बन्धः ।। .
एतदेव स्पष्टयनाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org