________________
४०० . श्रीतिलकाचार्यविरचितटीकायुतम् .
अहो निचं तवो कम्मं, सब्बबुद्धेहिं वन्नियं । जा य लज्जासमावत्ती, एग्गभत्तं व भोयणं ॥२२॥ .
अहो-विस्मये । नित्यम्-नित्यकृत्यं । तपःकर्म-तपःप्रधानं कर्म क्रियाकलापः । सर्वबुद्धेः-सर्वैर्जिनैः । वर्णितम्-कथितम् । या च । लज्जाप्रतिपन्नाऽनिर्वाहे व्रीडा । समासमभावा । वृत्तिः-वर्तनम् । एकभक्तं च भोजनम्-एकम्-एकवेलं, भक्तम्-अशनखाद्यरूपं, यत्र भोजने तदेकभक्तं, न पुनः स्वादिमजले अप्येकवेलं, ते अपि दिवसे एव न रात्रौ ।।
रात्रिभोजने दोषामाहसंतिमे सुहुमा पाणा, तसा अदुव थावरा । जाई राओ अपासन्तो, कहमेसणियं चरे ? ।।२३।।
सन्ति इमे-प्रत्यक्षाः । प्राणाः । वसा अथवा स्थावराः जाइंति-ये सूक्ष्मा जीवाः । प्राकृतत्वाल्लिङ्गव्यत्ययः । “यत्तदोनित्यसम्बन्धात्" [ ]तानिति गम्यम् । तान् जीवान् रात्रावपश्यन् कथमेषणीयं चरेत्-रात्रावीर्याशुद्धिरेव नास्ति ।।
पुनस्तद्दोषमाहउदउल्लं बीयसंसत्तं, पाणा निवडिया महिं । दिया ताई विवजिजा, राओ तत्थ कहं चरे ॥२४॥
उदकाम्-बीजसंसक्तम्-बीजमिश्रमोदनादि, अथवा बीजानि पृथक् संसक्तंसंसक्तिमद् धान्यादि । प्राणाः-सम्पातिमादयः । मह्याम् । निशि निपतिताः सम्भवन्ति। दिवा तानुकादीन् वर्जयेत् रात्रौ तत्र-अचक्षुर्विषये । कथं चरेत् ।।
इदमुपसंहरन्नाहएयं च दोस दट्टणं, नायपुत्तेण भासियं । सव्वाहारं न भुंजंति, निग्गंथा राइभोयणं ।।२५।।
एतं दोषम्-प्राणिहिंसारूपं, आत्मविराधनालक्षणम् । च दृष्ट्वा ज्ञातपुत्रेण भाषितम् । सर्वाहारम्-चतुर्विधमप्यशनादि । न भुञ्जत्ते । निग्रन्थाः-साधवः । रात्रिभोजनम् ।। * ०ओ ६-१०.१२ ।। . ०वि० ६-१२ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org