________________
श्रीदशवैकालिकसूत्रम्
सन्निधिं दोषमाह
लोभस्सेसणुफासो, मन्ने अन्नमव ।
जे सया सन्निही कामे, गिही पव्वइए न से ।। १८ ।।
लोभस्यैषोऽणुस्पर्शः- लोभांशो यत्सन्निधिकरणम् । अतो मन्ये- अहम् । अन्यतरमपि स्तोकमपि । यः सदा सन्निधिं कामयते स गृही । प्रव्रजितो न सः ।। तर्हि वस्त्रादिधारयतां साधूनां कथं न सन्निधिरित्याह
जं पि वत्थं व पायं वा, कंबलं पायपुंछणं ।
तं पि संजमलज्जट्ठा, धारिंति परिहरंति य । । १९ । ।
यदपि वस्त्रं वा, पात्रं वा, कम्बलं, पादप्रोञ्छनम् । तदपि । संयमलज्जार्थम्
-संयमार्थं पात्रादि, लज्जार्थं लज्जनीयाङ्गाच्छादनार्थं वस्त्रम् । धारयन्ति परिहरन्ति चकारणे परिहरन्ति, परिभुञ्जते मूर्च्छारहिता इति ।।
यतश्चैवमतः
न सो परिग्गहो वृत्तो, नायपुत्त्रेण ताइणा ।
मुच्छापरिग्गहो वृत्तो, ईई वृत्तं महेसिणा ||२०||
पूर्वार्धं स्पष्टम् । उत्तरार्धस्यार्थः । मूर्च्छापरिग्रहः । श्रीवीरेण उक्तः । इत्युक्तं सूत्रे। महार्षिणा-श्रीसुधर्मस्वामिना ।।
प्रायो वस्त्राद्यभावेऽपि तृष्णया मूर्च्छा भवति । भावे साधूनां कथं न मूर्च्छत्याहसव्वत्थुवहिणा बुद्धा, संरक्खणपरि
। अवि अप्पणो वि देहंमि, नायरंति ममाइयं ।। २१ ।।
सर्वत्र उचितक्षेत्रे काले वा । उपधिना - आगमोक्तेन वस्त्रादिना सतापि बुद्धाज्ञाततत्त्वा साधवः संरक्षणाय - षण्णां जीवनिकायानां वस्त्रादिपरिग्रहः संरक्षणपरिग्रहः । तस्मिन्, एकोऽपि शब्दश्चार्थे, ततो न केवलं संरक्षणपरिग्रहे आत्मनोऽपि च देहे नाचरन्ति । ममायितम् - ममत्वम् ।।
उक्तः पञ्चमस्थानविधिः,
षष्ठमाह
१. वस्त्रादि० १० टि० ।।
Jain Education International
For Personal & Private Use Only
३९९
www.jainelibrary.org