________________
३९८ . श्रीतिलकाचार्यविरचितटीकायुतम्
चित्तमंतमचित्तं वा, अणुं वा जइ वा बहुं । दंतसोहणमित्तंपि, उग्गहं से अजाइया ।।१३।। स्पष्टः । नवरम् । से-तस्य गृहस्थस्य ।। . तं अप्पणा न गिन्हंति, नो वि गिन्हावए परं । अन्नं वा गिन्हामाणं पि, नाणुजाणंति, संजया ॥१४॥ स्पष्टः ।। उक्तस्तृतीयस्थानविधिः, चतुर्थमाहअबंभचरियं घोरं, पमायं दुरहिट्ठयं । नायरंति मुणी लोए, भेयाययणवजिणे ।।१५।।
अब्रह्मचर्यम्-प्रतीतम् । घोरम्-रौद्रं दुर्गतिहेतुत्वात् । किं विशिष्टं प्रमादम्विषयाणां प्रमादरूपत्वात् । दुष्टैरधिष्ठीयते यत्तद् दुरधिष्ठम्-सुसाधूनामसेव्यम् । अतो नाचरन्ति- न सेवन्ते । मुनयः । लोके- जगति वर्तमाना इति शेषः । भेदः-चारित्रस्य भेदः, सङ्गरूपः । तस्यायतनं स्थानं अब्रह्म । ततस्तद् वर्जिनः ।
एतदेव निगमयतिमूलमेयमहंमस्य, महादोसमुस्सयं । . तम्हा मेहुण संसग्गं, निग्गंथा वजयंति णं ।।१६।।
स्पष्टः । नवरम् । महादोषाणां-चौर्यप्रवृत्यादीनां, समुच्छ्रयः-उन्नतिर्यत्र तं महादोषसमुच्छ्रयम् ।।
उक्तश्चतुर्थस्थानविधिः, पञ्चममाहबिडमुब्भेइमं लोणं, तिल्लं सप्पिं च फाणियं । न ते संनिहिमिच्छंति, नायपुत्तवओरया ।।१७।।
बिडम्-पक्वम्, अग्नितापादिना प्रासुकम् । उद्भेदिमम्-उद्भेदाज्जातम् । सामुद्रम् अप्रासुकं द्विधापि लवणम् । तैलम् । सर्पिः-घृतम् । फाणितम्--गुडम् । इत्यादि । न ते -साधवः । सन्निधिम् इच्छन्ति-कर्तुं न वाञ्छन्ति । ज्ञातपुत्रवचसि रताः ।। १. महादोषनुं उत्पत्तिस्थान १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org